पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
दुर्जनपद्धतिः

गर्वग्रस्तत्वं । गण्यते - न तु स्वभावः - नि-'अवलेपस्तु गर्वे स्याल्ले- पने दूषणेऽपि चे'ति विश्वः । वक्तव्येष्वर्थेषु - शक्तिः प्रतिभापर- । पर्यायस्सामर्थ्यविशेषः - तया स्थिरे। मुखमस्यास्तीति मुखरो दुर्मु- खः - नि-दुर्मुखे मुखराबद्धमुखा वि'त्यमरः * ख मुख कुञ्जे- भ्यश्चे'ति रप्रत्ययः - तस्य भावस्तत्ता असंबद्धालापित्वमित्यर्थः । गण्यते - न तु वाग्मित्वं । तस्मात्कारणात्। गुणिनां गुणसंपन्नानां - स को नाम गुणो भवेत् । यो गुणः । दुर्जनैर्नाङ्कितः न दूषितः - दुर्जनादूषितो गुणस्सुगुणिनां न कोऽप्यस्तीत्यर्थः। 'यो दुर्जनानां मत' इति पाठे यो गुणः दुर्जनानां मतः इष्टः स्यात् स को नाम भवेदिति संबन्धः । दुर्जनाभिमतो गुणस्तु गुणिनां न कोऽप्यस्ती- । त्यर्थः ।।

शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्तम् ॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ? ।
सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ? ॥ ४५ ॥

 व्या.--अथ गुणावगणप्रणालिकामाह - लोभ इति.-- लोभोधनादिवाञ्छाऽस्ति चेदगुणेन दुर्गुणेन किं ? न किंचिदपीत्यर्थः- तस्यैवात्यन्तनिन्दावहत्वादिति भावः। पिशुनता परोक्षे परदोषसूच- कता। अस्ति यदि। पातकैब्रह्माहत्यादिभिः किं १ तस्या एव निरय- पातनदक्षत्वादिति भावः। सत्यं यथार्थभाषणं समदर्शित्वं वाऽस्ति चेत्तपसा चान्द्रायणादिना किं ? तस्यैवपरिशोधकत्वादिति भावः।