पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
दुर्जनपद्धतिः

 व्या.----अथार्थादिसंपन्नोऽपि दुर्जनो नोपादेय एवेत्साशये- नार्थपद्धतिनिरूपणानन्तरं दुर्जनपद्धति निरूपयति - तत्र तेषामव- गुणं गणयति - अकरुणत्वमिति.--परदुःखप्रहाणेच्छा करुणा - तद्राहित्यमकरुणत्वं - दयाहीनत्वं च । अकारणविग्रहो निष्कारण- कलइश्च - नि.-"अस्त्रियां समरानीकरणाः कलहविग्रहा"वित्य- मरः । परधने परद्रव्ये। परयोषिति परदारेषु । स्पृहा घ - एकत्रा- पहरणेच्छा - अन्यत्र संभोगाभिलाषश्च। सुजनेषु बन्धुजनेषु च। असहिष्णुता असहनशीलत्वं चेतीदं सर्व * 'नपुंसकमनपुंसकेने' स्यादिना नपुंसकैकशेषः । दुरात्मनां दुर्जनानां । प्रकृतिसिद्धं स्वभा- विसंद्ध हि। अतस्तेनोपादेया इति भावः - नि.---'प्रकृतिः प्रपञ्च- भूते प्रधाने मूलकारणे स्वभाव' इति विश्वः ॥ द्रुतविमम्बितवृत्तं - 'द्रुतविलम्बितमाह नभौभरा' विति लक्ष- गात् ।।

दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् ।
मानिना भूपितस्सर्पः किमसौ न भयंकरः? ॥ ४३ ॥

 व्या.-आस्तां तावत् दुर्जनमात्रस्य परित्याज्यत्वकथनम् - अशेषावगुणावमार्जकसंपन्नोऽपि दुर्जनः परित्याज्य एवेति सदृष्टान्त- माह - दुर्जनइति.---दुर्जनो। विद्यया वेदवेदाङ्गाद्यात्मिकयाऽलंकृतो भूषितस्सन्नपि - सकलविद्यापारीणस्सन्नपीत्यर्थः। परिहर्तव्यस्त्याज्यः कुत इत्यतआह - सर्पः आशीविषः । मणिना फलकस्थमाणिक्येन । भूषितोऽलंकृतस्सन्नपि । असौ सर्पो । नभयंकरः किम् ? भयंकर ऐवेत्यर्थः । अतो मणिभूषितसर्पप्रायो विद्यावानपि दुर्जन दूरतस्त्याज्य