पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
नीतिशतके

 व्या.-अथातिकार्पण्यं मा कुरु । लाभालाभयोर्दैवायत्तमूल- कत्वमित्याह - यदिति.----धात्रा ब्रह्मणा। स्तोकमल्पम् । महद्बहुळं वा। यद्धनम्। निजफालं निजनिटिलतटमेव पटुं तत्र - लिखितं लेख- नेन निर्दिष्टम् । तद् तद्भह्मलिखितं धनम्। मरुस्थले ऊषरदेशेऽपि - किमु- तान्यत्रेति भावः। नितरामतिशयेन। प्राप्नोति लभते - अन्यूनमिति शेषः - नि-समानौ 'मरुधन्वाना' वित्यमरः। मेरौ कनकाचलेऽप्यतो- प्यतो ब्रह्मलिखितादधिकम्। न प्राप्नोति। तत्तस्मात्कारणाद्वीररिस्थर- चित्तो। भव। वित्तवत्सु धनादृयेषु विषये। कृपणां दीनाम् । वृत्तिं व्यापारम्। वृथा व्यर्थम्। माकृथाः माकार्षीस्तेन कार्पण्यजनित- निन्दामात्राश्रयत्वमेव न त्वधिकधनप्राप्तिरिति भावः। कृव्यो लुङि थास - तनादित्वेऽपि सिचो नित्यलोपविधानानसिच् - 'न माङयोग' इत्यट्प्रतिषेधः। तत्र दृष्टान्तमाह - कूपेऽल्प जलाधारे गर्तेऽपि। पयो- निधौ समुद्रेऽपि। घटः कलशस्तुल्यमात्मपरिमितम्। जलं गृह्णाति स्वीकुरुते - पश्येति कृपणसंबोधनं - न तु कूपेऽल्पं पयोनिधावधिक- मत एतद्दष्टान्तेन समाहितचित्तेन भवितव्यम्। न तु कार्पण्यपर्याकुले- नेति तात्पर्यम् ॥

ज्ञति नीतिशतके अर्थपद्धतिरसम्पूर्णा ॥


॥ दुर्जनपद्धतिः ॥

अकरुणत्यप्रकारणविग्रहः परधने परयोषिति च स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिशिद्धनिदं हि दुरात्मनाम् ।।