पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
अर्थपद्धतिः

अत्र सत्यानृतेत्यादिपदश्रवणमात्रेण झडिति विरोधः स्फुरति । तस्य खाभाव्येनाभासीकरणादलंकारस्सन । वाराङ्गनेवेत्युपमयाs- ङ्गाङ्गिभावेन संकीर्यते ॥

आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगोभित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥

 व्या.--सोऽपि गुणाढ्य एव समाश्रयणीयो न तु निर्गुण इति राजानमेव संबोधयति - आज्ञेति.---आज्ञा मर्यादापरिपालना- स्मकशासनम् : कीर्तिदानक्षात्रोद्भवा सत्समाख्या। ब्राह्मणानां पालनं निरुपद्रवं ब्राह्मणसंतर्पणम्। दानं सत्पात्रे त्यागः। भोगः स्रक्चन्द- नादिजनितसुखानुभवः । मित्रसंरक्षणं सुहृत्समुद्धरणम्। चेत्येते षड् गुणाः। येषां राज्ञाम्। न प्रवृत्ताः न प्रवर्तन्ते - कर्तरि क्तः। पृथिव्या ईश्वरः पार्थिवः तस्य संबुद्धिः - हे पार्थिव राजन् - । तस्येश्वरः।' 'सर्वभूमिपृथिवीभ्यामणित्यण्प्रत्ययः - तेषामुपाश्रयेण समाश्रयेण । कोऽर्थः को लाभः न कोऽपीत्यर्थः ; तस्मादुक्तगुणसंपन्न एव राजा समाश्रयणीयः। न तु कुझिम्भरिरिति भावः ॥

 शालिनीवृत्तं - 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै 'रिति लक्षणात्।।

यद्धात्रा निजफालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः ।
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ ४१ ॥