पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
अर्थपद्धतिः

तस्मिंश्च सम्यगनिशं परियुष्यमाणे
नानाफलं फलति कल्पलतेव भूमिः ॥ ३८ ॥

 व्या.----अथ राजानं : संबोधयंस्तस्यार्थसाधनोपायमतिदि- शति - राजन्निति. हे राजन् त्वमिति शेषः - अन्यथा के शेषे प्रथम' इति प्रथमपुरुषः स्यात् । एनामेतां त्वद्धस्तगतामित्यर्थः । अत्रान्वादेशाभावादेनादेशश्चिन्त्यः : क्षितिर्धेनुरिवेत्युपमितसमासः - न तु क्षितिरेव धेनुरिति रूपक - वत्समिवेति स्पष्टोपमालिङ्गात्। तां क्षितिधेनुं । दुधुक्षसि यदि दोग्धुमिच्छसि चेत् - अर्थमिति शेष: । दुहेस्सन्नन्तात् सिच् । दुह्यादेर्द्विकर्मकत्वनियमात्। तर्हि तेन दुधुक्षाहेतुना । अद्येदानीमुपलभ्यमानं। लोकं जनम्। वत्सं तर्णकमिव - नि.- वत्सो नाकुलजे वर्षे तर्णके तनयादिके' इति वैजयन्ती - पुषाण पोषय - नि । 'लोकस्तु भुवने जन' इत्यमरः - वत्सनाशे क्षीरस्येव लोकनाशेऽर्थस्यासंभवादिति भावः । पोषणफल- माह - तस्मिन् लोके चानिशं सर्वदा। सम्यगसंबाधं । परिपुष्य- माणे परिपाल्याने सति। भूमिः क्षितिः। कल्पलतेव कल्पवृक्षशा- स्त्रेव - नि.-'समे शाखालते' इत्यमरः - यद्वा कल्पयत्यभीप्सिता- नीति कल्पा - सा च सा लता च * स्त्रियाः पुंव' दित्यादिनापुंव्द्भावः- -सैव कल्पवल्लीव । नानाविधफलं धनधान्यादिबहुरूपफलं। फलति निष्पादयति - ‘फलनिष्पत्ताविति धातोलेट । यतो लोक परिपालनव्यतिरेकेण न तेऽर्थः संभविष्यति-तद्वारैव भूमेरप्याखिलफल. दोग्धृत्वात् - तस्मादशेषलाभार्थं तत्परिपोषणमावश्यकमिति भावः ।