पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
अर्थपद्धतिः

इत्युक्तत्वात् । कृषिस्सस्यमनवेक्षणान्नश्यति - नित्यमपरामर्शान्नश्यति ।

"कृषिं व पत्नीमनवेक्ष्य यः पुमानन्यानि कार्याणिसमाचरेच ।
- ते त्वेवमेवं च समाकुले द्वे तथेति बाधानि वयं च यातः"॥

इति स्मरणात् ; स्नेहः पुत्रदारादिपूत्पन्नो मोहः । प्रवासाश्रयादेशा- न्तरसंचारसमाश्रयणान्नश्यति-

"सुताङ्गनाबन्धुषु सोदरेषु नृपेषु भृत्येषु च जातमोहः ।
प्रवासमात्रेण हि नश्यतेऽखिलं चिरं प्रवासेन हरत्य-
शेषम् ॥”

इति वचनात् ; मैत्री मित्रभावः । अप्रणयादननुरागानश्यति-

"मृद्धट इव सुखभेद्यो दुस्संधानश्च दुर्जनो भवति ।
सुजनस्तु कनकधट इव दुर्भेद्यश्चाशु संधयः ।।

इति वचनात्। समृद्धिस्संपत्तिरनयान्नीतिराहित्यान्नश्यति-

"रक्षायां स्वमतिक्षिपत्यधिकरं शिक्षा गुणैर्लभ्यते
विद्वेष्टि स्वजनं त्यजत्यवनतिं मृद्गाति मार्गस्थितान ।
भूतिं नेच्छति योजनात्प्रतिभयं दुर्वत्मना गच्छति
क्रूराग्रं विनयाङ्कुशं न सहते भूपालमत्तद्विषः ॥"

धनं तु त्यागादर्थिसात्करणात् - 'द्यूतादिति पाठे - द्यूतादक्षक्री- "डायाः - प्रमादादनवधानतया वा - नश्यति 'श्रुतिनिष्पीडनाश्चैव चार्थासक्तधियां नृणाम्' इति . प्रमादान्नाशस्त्वनुभवसिद्धएव- दानानाशस्समनन्तरश्लोक एव वक्ष्यते - शिष्टानां गर्हणान्नाशः सदाचारविवर्जनात्।' शार्दूलविक्रीडितम् ॥