पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
अर्थपद्धतिः

भावे क्तः - तदस्यास्तीति श्रुतवान् धर्मशास्त्राधाकर्णनचतुरोऽपीत्यर्थः । स एवं गुणज्ञो गुणग्राही • अत्र * 'आतोऽनुपसर्गे क' इत्यादि- व्याख्यातं प्राक् । स एव वक्ता वाग्मी स प स एव । दर्शनीय- स्सुन्दरश्च - उक्तगुणराहित्यऽपीति भावः । नन्वेवं चेत्पुरुषस्यैकेन वित्तन ईदृग्गुणसाकल्यसंपन्नत्वं कुत इत्याशङ्कयाह - सर्वे। गुणाः पूर्वोक्तकुलीनत्वादयः । काञ्चनं वित्तमाश्रयन्ति। अतोऽनेनैव सकल- गुणसंपतिसंभवे किमन्यैः प्रत्येकप्रयाससाध्यैरिति भावः ।।

 अत्र वित्तस्यैतावद्गणसंपादकत्वासंबन्धेऽपि तत्संबन्धाभि- धानादसंबन्धे संवन्धरूपातिशयोक्तिः ॥
वृत्त मुपजातिः ॥

दौर्स्मन्त्रयान्मृपतिविनश्यति यतिस्सङ्गात्सुतो लालना-
द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
हार्म बादनवेक्षणादापिकृषिः स्नेहः प्रवासाश्रया-
नौत्री चा प्रणयात्सवृद्धि रनयात्यागाधादाद्धनम् ॥ ३४ ॥

 च्या.--अथ द्वाभ्या मर्थस्य विनाशकार माह - दौर्मन्त्र्या- दिति..---नृपतिः राजा। दुटो न सुलक्षण प्रयुक्तो मन्त्रः पाङ्गुण्य- चिन्तनं यस्य तस्य दुर्भन्त्रस्य भावो दौमन्त्र्यं तस्माद्धेतोर्नश्यति विनष्टो भवति-मन्त्रवैकल्ये परेपामवकाशसंभवात् राज्याद्यपहरणादिति भावः- यद्वा - दुष्टा मन्त्रिणः प्रधानानि यस्य तस्य भावस्तस्मान्नश्यति - अदण्ज्यदण्डनांद्युपदेशेन लम्यादिरहितो भवतीत्यर्थः.-

"सन्मन्त्रिगा वर्धयते नृपाणां लक्ष्मीर्महीधर्मयशस्समूहः ।
दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीर्मतीधर्मयशस्समूहः॥"