पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
नीतिशतके

वास्तु संभवत्वयमेवास्माकं परमार्थ इति भावः। ननूत्कर्षावहत्वेन प्रसिद्धानामुक्तगुणानां विध्वंसमङ्गीकृत्य एकेन वित्तेन किं करिष्य- थेति नाशङ्कनीयं - यतस्तद्विना तेषामप्यत्यन्ताकिंचित्करत्वमेवेत्याहुः । एकेन केवलेन - नि- 'एके मुख्यान्यकेवला' इत्यमरः । येन अर्थन विना - * 'पृथग्विनेत्यादिना विकल्पात्तृतीया। इमे पूर्वोक्ताः । समस्ता अपि गुणाः जातिकुलशीलाभिमानादयस्तृणलवप्रायास्तृ- णकल्पास्तद्वन्निस्सारा इत्यर्थः। अतो गुणमहत्ताया अप्येतन्मूल- कत्वादयमेव संपादनीय इति भावः ॥

"धनमर्जय काकुत्स्थ धनमूलमिदं जगन् ।
अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥"
इति लक्ष्मणवाक्यमेव सिद्धान्तीकुर्मः
" अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
रक्षितानां व्यये दुःखं धिगर्थं दुःखभाजनम् ॥"
इति मनुस्मरणं त्वशक्तविषयं मन्यामह इति तात्पर्यम् ।।
शार्दूलविक्रीडितं - लक्षणं तूक्तम् ।।

यस्यास्ति वित्तं स नरः कुलीनः स. पण्डित स्मश्रुतवान् गुणज्ञः।
सएक वक्ता सच दर्शनीयः सर्वेगुगाः काञ्चनमाश्रयन्ति ।।

 व्या.-ननु तथाऽपि गुणाभावेऽपि कवलवितस्याकिंचि- त्करत्वमेवेत्याशङ्क्य तस्यैवाशेषगुणावहत्वं तावदाह - यस्येति.----. यस्य नरस्य । वित्तमस्ति संभवति । स नरः । कुले जातः कुलीनः महाकुलप्रसूतः के कुलात्ख' इति ख प्रत्ययः। स एव पण्डितो विद्वान् । स एव श्रुतवान् शास्त्रज्ञः • यद्वा - श्रुतं श्रवणं नपुंसके