पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
अर्थपद्धतिः

कारणं - न भवति खलु - 'तेजसा हि न वयः समीक्ष्यते' इति न्यायादिति भावः - 'वयः पक्षिणि बाल्यादा वि'त्यमरः । अयम- प्यायोवृत्तभेदः ॥

इति नीतिशतक मानशौर्यपद्धतिः सम्पूर्णां !!

।। अर्थपद्धतिः ॥

जातिर्यातुरसातलं गुणगणस्तत्राप्यधो गच्छतात्
शीलं शैलतटात्पतत्वभिजनस्सन्दह्यतां वह्निना।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तुनः केवलं
येनैकेन विना गुणास्तृणलवप्रायास्प्तप्नस्ता इमे ॥ ३२ ॥

 व्या.-मानशौर्ययोरप्यर्थमूलत्वात् तन्निरूपणानन्तरमर्थपद्धतिं निरूपयति.-तत्र प्रथममर्थैकतत्पराणां मतमभिसंधाय तमाह - जातिरिति..--जातिः ब्राह्मणत्वादिः। रसातलं नामाधोलोकम्। यातु गच्छतु भ्रश्यस्वित्यर्थः । गुणगणो धैर्यौदार्यगाम्भीर्यादिगुणसमूहः । तत्रापि रसातलापेक्षयाऽप्यधःपाताळलोकम्। गच्छतात् प्राप्नुयात्। शीलं सत्स्वभावः। शैलतटात् । पततु विशीर्णं भवत्वित्यर्थः । अभि- जनो वंश:- नि.-"अभिजनान्वयौ वंश" इत्यमरः । वह्निना। संद- ह्यता भस्मीक्रियताम्। वैरिणि संक्षोभकारित्वाच्छत्रुभूते शौर्ये । शूर- त्वमूर्ध्नीत्यर्थः । आशु शीघ्रम्। वज्रमशनिर्निपततु - अशनिनिपातेन तदपि विध्वस्तं भवत्वित्यर्थः। एवं पूर्वोक्तजातिकुलोचिताभिमान- शौर्यादिनाशेऽप्यास्माकं न किंचदपि च्छिन्नमिति भावः। तथाऽपि किं युष्मदभिलषितमित्यत आहुः - नोऽस्माकम् । अर्थः केवलं वित्तमे