पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
नीतिशतके

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिन कान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ ३० ॥

 व्या.-अथ मानिनां परनिकारासहनं सदृष्टान्तमाह - यदिति.--- यद्यस्मात्कारणादचेतनः चेतनरहितः निर्जीवोऽपीति यावत् - पाषाणत्वादिति भावः। इनकान्तस्सूर्यकान्तमणिस्सवितु स्सूर्यस्य । पादैः रश्मिभिरङ्घ्रिभिश्च। स्पृष्टः संवळितस्ताडितश्चेति ध्वन्यते। प्रज्वलति जाज्वल्यमानो भवति - कोपोद्रिक्तश्चेति गम्यते । तत्तस्मात्कारणात। तेजस्वी तेजश्शाली मानशौर्यसंपन्नः पुरुषः सचेतन इति शेषः । परैश्शत्रुभिः कृतनिकृतिं विहितापकारं कथं सहते क्षमते - न कथंचिदित्यर्थः; मैनाक स्तु नैवमिति भावः - नि.-' पादारश्म्यङ्घ्रितुर्यांशा' इत्यमरः ॥
आर्यावृत्तभेदः ॥

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववां नखलु वयस्तेजमां हेतुः॥ ३१ ॥

 व्या.--विक्रान्तत्वे वयोऽपि न हेतुरिति विनिगमयति - सिंह इति..-शिशुबालोऽपि विक्रान्तत्वयोग्यतारहितावस्थोऽपीत्य- र्थः। सिंहः। मदमलिनाः दानपयःपङ्किलाः - कपांलाः भित्तय इव एषां तेषु गजेषु - मातङ्गेषु। निपतति कुम्भस्थलविदारनार्थमिति भावः । इयं बाल्येऽपि विक्रान्तता। सत्त्ववतां बलाढ्यानां । प्रकृतिः स्वभावः । कुतः। वयो बाल्यादि। तेजसां प्रतापशालिनामिति तजस्तेद्वतोरभेदाद्ध्यवसायोऽत्यन्ततेजस्वित्वप्रकाशनार्थकः । हेतुः