पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
नीतिशतके

स्समास एवे'ति घिसंज्ञाया 'माङोनास्त्रियामि'त्याङो नाभावः। पृष्ठस्य मध्ये मध्येपृष्ठं निजकूर्परोपरिप्रदेश इत्यर्थः * 'पारे मध्ये षष्ठ्या वे'त्यव्ययीभावः . तत्सन्नियोगादेदन्तत्वं च मध्यश- ब्दस्य । सदा निरन्तरम् । धार्यते। उह्यते। तमपि। कमठपतिमपि । पयोधिः प्रळयार्यवः। अनादरात् अनायासात् । क्रोडाधनिं आदि- वराहायत्तं कुरुते - प्रळयकाले पाताळगतभूमण्डलस्यादिवराहाव- तारेण विष्णुना निजदंष्ट्रया समुद्धृवत्वादिति भावः। अतो मद्यत्तां मानशौर्यशालिनां महानुभावानां सम्बन्धिन्य श्चरित्रविभूतयो माहात्म्यसंपदो निस्सीमानो निर्मर्यादाः - अवाङ्मनसगोचरा इति यावत्। अह हेत्याश्चर्ये - नि- अह हेत्यद्भुते खेदे' इत्यमरः ।। अन पूर्वपूर्वस्योत्तरोत्तरगुणोत्कर्षावहत्वान्मालादीपकाख्योलंकारः - त दुक्तं विद्यानाथेन ॥

“यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् ।
प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते।' इति ।।

हरिणीवृत्तं - लक्षणं तूक्तम् ।।

वरं प्राणोच्छेदः समदमघवन्मुक्तकुलिश-
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ संपातः पयसि पयसां पत्युरुचितः॥ २१ ॥

 व्या.--मानशौर्यशालिन एवोक्तविधमहत्त्वं न तु तद्विहीन- स्येति मैनाकं दृष्टान्तीकृत्याह - वरमिति.---तुषाराद्रेस्सूनोर्हिम- वत्पुत्रस्य मैनाकस्य। उद्गच्छन्नुज्जृम्भमाणो - बहुलो भूयिष्ठश्च - यो