व्या.-अथ केवलं सर्वसङ्गपरित्यागमाह.-पाणिः पात्र-
मिति श्लोकेन • पाणिरिति-पवित्रं परिशुद्धं। पाणिः हस्त एव ।
पात्रं भाजनं - नि.- योग्यभाजनयोः पात्रमि' त्यमरः । भ्रमणेन
संचारेण - परिगतं प्राप्तं भैक्षं भिक्षाकदम्बकम् । अक्षय्यं नाश -
रहितम् । अन्नम् अशनम्। आशानां दिशा - दशकं । विस्तीर्ण विशा-
लं। वस्त्रं वासः ऊर्वी भूमिः । अस्वल्पं महत्। अचपलम्। अच
ञ्चलं । तल्पं शय्या । येषां निस्सङ्गतायाः सङ्गराहित्यस्य - अङ्गी-
करणेन - परिणतं परिपाकं गतं यत् स्वान्तं तेन संतोषिणः संतुष्टा -
ते धन्याः। सन्न यस्ता स्त्यक्ताः - दैन्यस्य व्यतिकरनिकराः यैस्ते -
तथोक्तास्सन्तः। कर्म। निर्मूलयन्ति नाशयन्ति । एवं च यत्र कुत्र -
वावसन् पाणिपात्रेण भैक्षान्नं भुक्त्वा दिगम्बरः उरवीशयनः निस्स -
ङ्गपरिणतचित्तेन संतुष्टस्सन् त्यक्तदैन्यव्यतिकरनिकरः धन्यः धारा -
वाहिकजन्मपरम्पराप्रदं कर्मनिलयन्तीत्यभिप्रायः ॥
मातर्मेदिनि ! तात मारुत ! सखे ! तेजः सुबन्धो जल !
भ्रातर्व्योभ ! निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्पुरन्निर्मल-
ज्ञानापास्तसमस्तमोह महिमा लीये परब्रह्मणि ॥ १००
व्या.---अथ पञ्चभूतानि संबोध्याह - मातरिति.हेमातः जननि । मेदिनि वसुमति। हे तात जनक । मारुत वायो । हे सखे सुहृत् । तेजः । हे सुबन्धो शोभनबन्धो । हे जल उदक हे भ्रातः सहोदर | व्योम अम्बर । भवतां युष्माक मन्त्यः चरमः। प्रणा - माञ्जलि: नमस्कारपूर्वकाञ्जलिः । निबद्ध एव - नि.- 'पाणिनिकुञ्जः