पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
वैराग्यशतके


दिवचनात्तस्य विधिनिषेधातीतत्वादिति भावः । तथा। रथ्यायां वीथ्या माकीर्णम् अनुपयुक्तत्वाज्जनै विक्षिप्तः - कुतः - विशीर्णं विशकलितं - तत्कुतः - जीर्णं पुरातनं तथाभूतं वसनमाच्छादनं - यस्य रथ्याकी - र्मविशीर्णजीर्णवसनः - “ चीराणि किं पथि न सन्ति दिशन्ति भिक्षा' मित्यादिना तस्य तथाविधवसनधारणस्वाभाव्यादिति भावः * अर्श आदित्वान्मत्वर्थीयोऽप्रत्ययः ॐ अर्शआदिराकृतिगणः - यद्वा - रथ्यायां- कीर्णमनादरेण विक्षिप्तं विशीर्णं जीणं च वसनं निजाच्छा. दन येन स तथोक्तः संप्राप्तं समधिष्ठितं - कन्थैवासनं - येन स तथोक्तः - चतुर्गुणितकन्थोपर्युपविष्ट इत्यर्थः । अत एव । निर्मानोऽ भिमानशून्यः - संसाराध्यासरहित इत्यर्थः । निरहंकृति रहंकार - शून्यः । तदात्माध्यासरहित इत्यर्थः । शमो नाम वैराग्येण निर्वि- । कारचित्तत्वं - तेन यः सुखाभोगः आनन्दाऽतिशयः तत्र - एकं मुख्यं यथा तथा - बद्धा स्पृहा येन स तथोक्तः । ब्रह्मध्याननिष्ठ इत्य- र्थः - कश्चित्कोऽपि । तपस्वी महातपाः योगीश्वरः * प्रशंसाया- मिनिः । स्थितः निरातङ्कं वर्तत इत्यर्थः - रथ्याकीर्णेति संप्राप्तेति ध विशेषणद्वयेन बाह्यवैराग्यमुक्त - मन्यैरान्तरवैराग्यमित्यवगन्तव्यम् ।। स्वभावोक्तिरलंकारः - स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णन - मिति लक्षणात् ।।

चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः ।
किं वा तत्त्वविवेकपेशलमति र्योगीश्वरः कोऽपि किम् । ।
इत्युत्पन्न विकल्प जल्पमुखरैराभाष्यमाणा जनै
र्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ९६