पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१९
अवधूतचर्या


स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्थैर्यं गोगमहोत्सवेऽपिच यदि त्रैलोक्यराज्येन किम् ?

 व्या.-शिवार्चनस्य मोक्षोपयोग्यावधूतभाव फलकत्वा 'दत्या गेऽपि तमोरखण्डपरमानन्दावबोधस्पृशा मि' त्युपक्रान्तत्वाच्चेदानीं - तावदवधूतचर्यामाह - अथावधूतचर्येति.--अवधूनो नाम ब्रह्मात्मै . क्यानुसंधानतत्परः विस्मृतबहिः प्रपञ्चः जीवन्मुक्तशब्दवाच्यो मलिनो योगपुरुषस्तस्य चर्या आचारः - उच्यत इति शेषः॥ उपक्रान्तामवधूतचर्यां दशभिर्वर्णयति.----कौपीनमिति-शतखण्डे- रनेकशकलैः - जर्जरतरमतिविशीर्णं कौपीनं गुह्याच्छादनचीर - खण्डं । यदि अस्तिचेदित्यर्थः - एवमुत्तरत्रापि - नि, ' कौपीनं स्याद कार्ये च गुदचीरप्रदेशयोरि' ति विश्वः । तादृशी तथाभूतशतखण्ड जर्जरतरैवेत्यर्थः । कन्था पुनः कन्था च । अस्तियदि । नैश्चिन्त्यं विषयचिन्तारादित्यं च यदि । तथा निरपेक्षमनुवर्तनापेक्षारहितं - भैक्ष मशनं भोजनं यदि। श्मशाने प्रेतभूमौ । वने महारण्येवा । निद्रा च यदि । स्वातन्त्र्येण स्वाच्छन्द्येन । निरङ्कुशमप्रतिबन्धं । विह रणं विहारश्च । यदि सदा प्रशान्तं प्रसन्नं * 'वादान्ते' त्यादिना निपातः । स्वान्तं चित्तं यदि । योगमहोत्सवे - योगस्समाधिरव महो- त्सवस्तस्मिन् । स्थैर्य च। यदि अस्तिचेत्तर्हि त्रैलोक्यराज्येन त्रिलो काधिपत्येन । किं न किमपीत्यर्थः - तस्यैव परमसौख्यावहत्त्वादिति भावः यो लोकास्त्रैलोक्यं * चातुर्वर्णादित्वात्स्वार्थे ष्यञ् ।।

ब्रह्माण्डपण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥९२