पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
नीतिशतके

यः कुम्भः कुम्भस्थलं - तत्र यत्पिशितं मेदो मांसं - तद्ग्रासे तत्कबळने - एक मुख्यं यथा तथा - बद्धा सन्दानिता - स्पृहा वाञ्छा यस्य स इति शोर्यातिशयोक्तिः। तथा मानमहताभिमानोर न्नताना मग्रेसरोऽग्रगण्यः * 'पुरोऽग्रतोऽग्रेषु सर्तेरि 'ति टप्रत्ययः । केसरी सिंहः। जीर्णं तृणं धासम्। अत्ति किं अभ्यवहरति किम् ? नास्त्येवेत्यर्थः। इति मानातिशयोक्तिः ; नीचजन्तु स्तु नैव मिति भावः ॥

 अत्र यद्यपि सर्वत्रापिशब्द स्ताव देकैक विशेषण विशिष्टस्यै- वात्यन्तनीचवृत्तिप्रवृत्तिं द्योतयति । तथाऽप्युक्ताखिलविशेषण विशिष्टोऽपि गजेन्द्र मेदः कबळनविहितप्रतिज्ञः केसरी न नीचवस्तुनि प्रवर्तत इति महती मानशौर्यपरकाष्ठोक्ति रिति मन्तव्यम् ॥

"प्राणानपि परित्यज्य मानमेवाभिरक्षयेत् ।
प्राणा स्तरङ्गचपला मान माचन्द्रतारकम् ॥”

इति वचनान्मान शौर्यसंपन्नेन भवितव्यं यशस्कामेनेति भावः ।।

 अत्र प्रकरणे कुत्रचिन्मानस्य कुत्रचिच्छौर्यस्य कुत्रचिदुभ- यस्य च प्राधान्यकथनमपि द्रष्टव्यम् । कुलक्रमागतोत्तमशीलपरि पालनं मानं सहायमनपेक्ष्य शत्रुसंहरणसामर्थ्यम् शौर्यमिति विवेकः ॥ अत्र प्रायेणाप्रस्तुतप्रशंसालंकारोऽनुसंधेयः ।। शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्त्तम् ।। " स्वल्पस्नायुवसावसेकमलिनं निर्मांस मप्यस्थि गोः श्वा लब्ध्वा परितोष मेति नच तत्तस्य क्षुधाशान्तये।