पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
वैराग्यशतके


नलक्षणो निर्वेदस्थायी - शान्तरसः परिस्फुरतीत्यवगन्तव्यम् ।। एवमुत्तरत्रापि - योज्यम् ।।

स्नात्वा गाङ्गैः पयोभिश्शुचिकुसुमफलैरर्चयित्वाविभो ! त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रामपर्यङ्कमूले। .
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्य कदाऽहं समकरचरणे पुंसि सेवासमुत्थम् ।।

 व्या.–स्नात्वेति.--गङ्गाया इमानि गाङ्गानि * तस्येद - मित्यण् - तैः पयोभिर्गङ्गाजलैरित्यर्थः । स्नात्वा शुद्धो भूत्वा । हे। विभो शंभो । शुचिभिः शुद्धैश्शास्त्रसम्मतैरिति यावत् - कुसुमैः फलैश्च । त्वामर्चयित्वा समाराध्य - एतेन बाह्यपूजाया अप्यंशतः प्राधान्यमस्तीति सूचितं । ध्येये ध्यातुं योग्य वस्तुनि-त्वञ्चरणारविन्द - एवेत्यर्थः । ध्यानं निवेश्य एकाग्रचित्तो भूत्वेत्यर्थः । तथा। क्षिति - धरकुहरे - यो ग्रावा पाषाण - स्सएव पर्यङ्कः सुखशय्या - तस्य मूले। निषण्णस्सन्निति शेषः - समाधिव्युत्थानानन्तरं सुखसंवेश - योग्यताद्योतनार्थं ग्राव्णि पर्यङ्कत्वरूपणम् । आत्मन्येवारमत इत्यात्मा- रामो विषयान्तरासक्तिशून्यस्सन्नित्यर्थः - ' रमन्ते योगिनोऽनन्ते - नित्यानन्दे चिदात्म नी' ति स्मृतेः । तथा। फलाशी फलाहारः - शरीरधारणार्थमिति भावः । गुरुवचनरत: आचार्योपदिष्टकर्माचरण- तत्परस्सन् - अहम् - इत्थंभूतताया एव श्रेयोहेतुत्वादिति भावः । हे। स्मरारे मदनान्तक । त्वत्प्रसादात् त्वदनुग्रहात् । मकरेण मकराका - ररेखया सह वर्तत इति समकरश्चरणो यस्य तस्मिन् तथोक्ते । 'सि- महाभाग्यसंपन्ने पुरुषे विषये - राज्ञीत्यर्थः। सेवासमुत्थं परि चर्या -