पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
वैराग्यशतके


भावान्निरर्थका जाता इत्यर्थः । तथा बलवान् बलिष्ठः-दुर्जयइत्यर्थः । काल̠ कालस्वरूप अपरावर्त्य इति यावत् । अक्षमी असहनश्च । कृतान्तो यम स्सहसाऽभ्युपैति अभियुङ्क्ते - प्राणापहरणार्थमिति - भावः - नि. 'कृतान्तौ यमसिद्धान्तावि' त्यमरः अतः किं । युक्त - मुचित्तम् - ईदग्दशायां किं कर्तव्यमित्यर्थः । हा कष्टं - तथाऽपीद मेकं तरणसाधनमस्तीति स्मरण ममिनीयाह । ज्ञात मवगतं किं ज्ञात- मित्यत आह - मदनान्तकस्य शंभोः - अङ्घ्रियुगळं पादयुग्मं । मुक्त्वा विहायान्या गति श्शरणं। नास्ति । अतस्तदेव श्रयणीयमिति - भावः ॥

महेश्वरे वा जगता मधीश्वरे जनार्दने या जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्ति रस्ति मे तथाऽपि भक्तिस्तरुणेन्दुशेखरे॥

व्या.----ननु -

'यत्पादनिस्मृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्नयधिकृतेन शिवः शिवोऽभूत् ।
ध्यातुर्मनश्च कुलशैलविसृष्टवज्रं
ध्यायेच्चिरं भगवत श्चरणारविन्दम् ।।

इत्यादिना शिवायशेषदेवताकल्याणप्रदे अखिललोकाराध्ये संसारा- र्णव तरणयानपात्रे भगवतश्चरणारविन्दे जाग्रति कथं शिवाङ्घ्रियुगळं विनाऽन्या गतिर्नास्तीति प्रलपसि इत्याशङ्कयाह - महेश्वर इति.-- जगतां चतुर्दशभुवनाना मधीश्वरे स्वामिनि । महेश्वरे शिवे वा । तथा जगता मन्तरात्मनि अन्तः करणसाक्षिणि - अन्तर्यामिणीति वा - अथवा अन्तर्भूतात्मनि जीवात्मस्वरूपे अविद्याप्रतिबिम्बित -