पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
वैराग्यशतके


स्थ - नि आनायः पुंसि जालं स्यादि' त्यमरः - आलाने ' ति पाठे आलानस्य बन्धनस्तम्भस्य - लीला । धत्ते दुर्दममनोनियमन - समर्थो भवतीत्यर्थः । तादृगिति संबन्धः ।।

 अत्रेदृक्पुरुषस्य नयनश्रोत्रपथविषयसंबन्धेऽप्यसंबन्धोक्त्या - संबन्धे असंबन्धरूपातिशयोक्तिः । तथा च मनोनियमनस्यात्यन्ताश- क्यत्वरूपं वस्तु व्यज्यते इत्यलंकारेण वस्तुध्वनिः; तथाच केनचिद्यो- गेन मनो नियम्य तत्र ब्रह्मानन्दसाधनभूतान्तरङ्गशिवार्चनतपोड वश्यं कर्तव्यमिति गूढोऽय मभिप्रायः ; तथा अन्यधर्मस्यान्यत्र संब- न्धासंभवादानायलीलामिव लीलामित्यौपम्यपर्यवसानादसंभवद्वस्तु- संबन्धरूपो निदर्शनालंकार: ; स चोक्तरूपकेणाङ्गाङ्गिभावेन संकीर्यते. मन्दाक्रान्तावृत्तम् ॥


यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं
स हार्यै संवासश्श्रुत मुपशमैक वृतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृश-
न्न जाने कस्यैषा परिणति रुदारस्य तपसः॥ ८२

 व्या.-अथ तपः प्रवृत्ति मेवाह-यदिति.----स्वच्छन्दं यथे - च्छम् अपराधीनमिति यावत् । विहरणं विहारश्च । न विद्यते कार्प - ण्यं दैन्यं यस्मिं स्तत्तथोक्त मशनं भिक्षान्न भोजनं कन्दमूलाद्याहारो वा । तथा आर्यैर्विज्ञानसंपन्नैः । सह संवासस्समागमश्च । तथा उपशमो विषयभोगविरतिरेव - एक मुख्यं - व्रतफलं यस्मिं स्त थोक्तं । शान्तिफलकतपश्चरणबोधकमित्यर्थः। श्रुतं वेदान्तशास्त्रश्र- बणं च - नि, श्रुतं शाखायधृतयो रिति विश्वः । तथा। बहिः