पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
मानशौर्यपद्धतिः

कवीश्वराणाम् । यशः काये कीर्तिशरीरे । जरामरणाभ्यां जातम् - इति तथोक्तम् । भयं नास्ति ; रससिद्धानां भौतिकशरीर एव जरामरणभयं नास्ति। यशश्शरीरे तु किं वक्तव्यम्। तस्य कल्पान्तस्थायित्वा दिति भावः ॥

अत्र रससिद्धपदार्थस्य विशेषणगत्या भयाभावपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः । वृत्त मुक्तम् ॥

इति नीतिशतके विद्वत्पद्धति सम्पूर्णा !!

॥ मानशौर्यपद्धतिः ॥

क्षुत्क्षामोsपि जराकृशो?ऽपिशिथिलमायोऽपि कष्टांदशा-
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ।
मत्तेभेन्द्रविभिन्नं कुम्भपिशितग्रासैकवद्धस्पृद्दः
किं जीर्णं तृण भत्ति मानमहता मग्रेसरः केसरी ॥ २२ ॥

 व्या.----अथ विदुषामपि मानशौर्ययो रपेक्षितत्वाद्विद्वत्प- द्धतिनिरूपणानन्तरं मानशौर्यपद्धति निरूपयति--क्षुत्क्षाम इति.-- क्षुधा क्षामः क्षीणोऽपि * 'क्षायो म' इति मत्वं, जरया विस्रसया - कृशो जीर्णोऽपि - नि-विस्रसाजरे'त्यमरः । शिथिलप्रायः विश्लथाङ्गतया बलहीनस्सन्नपी त्यर्थः। कष्टां दशामाहारालाभादति- कृच्छावस्था मापन्नः प्राप्तोऽपि - नि-दशावर्ताववस्थायामिति र्स्था यामिति विश्वः । अत एवं विपन्न दीधिति र्नष्टकान्तिरपि। किं बहुना प्राणेषु पञ्चसु। नश्यत्सूत्क्रममाणेषु सत्स्वपि - प्राणप्रयासे संप्राप्ते सत्यपी त्यर्थः । मत्तेभेन्द्रस्य मत्तगजपुङ्गवस्य - विभिन्नोविदारितो ..