पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
वैराग्यशतके


माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्नु कन्यापय:
पूतग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः कचित् ॥ ७८

 व्या.---अथ तपसः श्रेयोहेतुत्वे तदाचरणस्य किंवा योग्य - स्थानमित्याशङ्कायामाह - मान इति.-माने अभिमाने म्लायिनि भग्ने सति । तथा । वसुनि धने च । खण्डिते विनष्ठे सति. - नि. 'देवभेदेऽनले रश्मौ वसू रत्ने धने वस्वि'ति विश्वः । अत एवार्थिनि याचके ! व्यर्थे अलब्धमनोरथत्वान्निरर्थके प्रयाते सति वाञ्छितार्था लाभाद्वैमुख्यं गते सतीत्यर्थः । बन्धुजने पुत्रमित्रादि बन्धुजनसमूहे। क्षीणे अन्नाद्यलाभात्कृशे सति । परिजने भृत्यवर्गे । गते वेतनदाना- ' भावादन्यत्र गते सति । तथा। शनैर्मन्दं। यौवने तारुण्ये नष्टे गळिते सति । अनित्यत्वस्वाभाव्यात्सर्वस्मिन्विपन्ने सतीत्यर्थः । सुधियां शुद्धिसंपन्नानामेतदेव इदमेवैकं केवलमत्यन्तम् । युक्त- मुचितं किमेतदित्यत आह - क्वचित् कस्मिंश्चित् । जह्नुकन्यापयः पूताः गङ्गाजल पवित्राः - ग्रावाणः पाषाणा: यस्मिन् स तथोक्तो यो गिरीन्द्रः तस्य हिमवद्गिरेः कन्दरतट्यां गुहाबहिः स्थल्यां - निकुञ्जो लतामण्टपः तस्मिन्निवास इति यत् तदेतद्युक्तमिति संबन्धः । तस्यैव श्रेयस्साधनभूत्ततपोयोग्यस्थलत्वादिति भावः - नि. 'निकुञ्ज कुञ्जौ वा क्लीवे लतादिपिहितोदरे' इत्यमरः ॥

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसभागमागतसुखं काव्येषु रम्याः कथाः ।