पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०५
नित्यानित्यवस्तुविचारः


- जने जनसमुदाये । कतिपये कियन्तः - ये निमेषास्तावन्मात्रकाल- परिच्छिन्नमायुर्यस्य तस्मिन् सतत्यिर्थः - जात्येकवचनविवक्षायां तु जनेष्वस्मासु कतिपयनिमेषायुःषु सत्स्वित्यर्थः । किम् उक्ततपश्च - रणादिषु किं वा कुर्मः । सर्वेषामाचरणे अवकाशाभावादिति भावः। न विद्मः न जानीमः - निश्चयाभावादिति भावः ।।

दुराराध्याश्वामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छास्सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे ! नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ७७

 व्या.—ततः किमित्याशङ्कय ततो निश्चयमाह - दुराराध्या इति.-तुरगाः उत्तमाश्वा: - तद्वञ्चलानि चित्तानि येषां ते अस्थिर- हृदया इत्यर्थः । अमी परिदृश्यमानाः । क्षितिभुजो राजानः । दुरा- राध्याः आराधयितुंः प्रसादयितुमशक्या: - प्रसादोन्मुखीकरणाशक्या इत्यर्थः । तथा स्थूलेच्छाअधिकाशातत्पराः । वयं च । सुमहति बहुले। फले धने । बद्धं मनो येषां ते तथोक्ताः - बहुधनाकाङक्षिण इत्य - र्थः - आकाक्षामात्रमेवास्माकं न तु ते दास्यन्तीति भावः । तथा। जरा वार्धकदशा । देहं । हरति क्षिणोति। मृत्युरन्तकश्च । दयितं । प्रियतममिदं जीवितम् इमान् प्राणानित्यर्थः। हरति । अत: हे सखे। जगत्यस्मिन् लोके । विदुषस्तत्वज्ञस्य पुंसः। तपसोऽन्य- त्रान्यत् इतरदित्यर्थः । अन्यदसाधारण मुत्तमं । श्रेयः मोक्षसाधनं । नास्ति ततोऽन्यत्परमं श्रेयोन्तरं नास्ति । अतस्सर्वथा तदेव संपादनी- यमिति भावः ।।

20