पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
वैराग्यशतके


इति भावः ; तस्मात्स्वस्थावस्थायामेव श्रेयस्साधनसंपादनतत्परेण भवितव्यमवश्यं बुद्धिमतेति तात्पर्यम् ॥

तपस्यन्त स्सन्तः किमधिनिवसाम स्सुरनदीं
गुणोदारान्दारानुत परिचरामस्सविनयम्।
पिबामश्शास्त्रोघानुत विविधकाव्यामृतरसा-
न्न विद्मः किं कुर्मः कतिपय निमेषायुषि जने ॥ ७६

 व्या.---अथ तपश्चरणादीन् बहून् कर्तव्यतया विकल्प्यानन्तर मवश्यं तप एव संपादनीयमिति केषांचिन्निश्चयमनुसंधायाह - तपस्यन्त इति द्वाभ्यां - तपस्यन्त इति..--तपस्यन्तः तपश्चरन्तस्सन्तः । केव लमिति शेषः * 'कर्मणो रोसन्यतपोभ्यां वर्तिचरोरि' ति क्यप्- प्रत्ययः । सुरनदीं मन्दाकिनीम् । अधिनिवसामः कि अधितिष्ठामो - वा-वैराग्येणेति भावः - किंशब्द उत्तरत्राप्यनुवर्तनीयः उपान्व ध्यास' इति सुरनद्याः कर्मत्वम् । उत अथवा । विनयेनानुकूल्येन सहिवं यस्मिन् कर्मणि तद्यथा। तथा गुणैस्सौभाग्यसौशील्यादिभि - रूदारान् रम्यान् । दारान् जायां । परिचरामः किं अनुसरामो वा- सांसारिकधर्मेणेति भावः - नि. भार्या जायाथ पुंभूम्नि दारा' इत्यभिधानाहारशब्दस्य पुंस्त्वं बहुत्वं च । लया। शाखौघान् शाख कलापान् । पिबामः किं अद्यैव कीर्तिप्रतिष्ठाविज्ञानार्थमित्यर्थः । 'पाध्राष्मे ' त्यादिना पातेः पिबादेशः। उत यद्वा । विविधानि काव्यानि काव्यनाटकालंकारा एवामृतरसास्सुधाद्रवाः - अथवा - विविधेषु काव्येषु ये अमृतरसास्तान् । पिबाम: - सकलकलाकौश - लार्थमिति भावः । जनशब्देनात्र तत्समुदायो विवक्षितः • तथा च