पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
वैराग्यशतके

भ्रान्त्याऽपि जातु विमलं कथमात्मनीनं
नब्रह्म संस्मरसि निवृतिमेषि येन ॥ ७०

 व्या---एनमेवार्थं पुनः प्रकारान्तरेणोपदिशन्निगमयति - पाताळमिति... हे मानस । चापलेन तत्तद्विषयासक्तिजनितचापल्ये- नयुवादित्वादण् * हेतो तृतीया। पाताळमाविशसि अत्यन्ताधः प्रदेशमपि गच्छसीत्यर्थः । तथा नभोऽन्तरिक्ष : विलङ्घ्य। यासि । अत्यूर्द्वधप्रदेशमपि गच्छसीत्यर्थः । तथा दिङ्मण्डलं दिक्चक्रवाळं । भ्रमसि अतिदूरदेशमपि धावसीत्यर्थः - सर्वत्रापि मनोगतेर्निरर्ग - ळत्वादिति भावः । किं तु। भ्रान्त्या भ्रमवशेनापि - मास्तुविवेकेने - त्यपि शब्दार्थः - तथापि - जातु कदाचिदपि। विमलं निर्मलम् - अविद्याकार्यसबन्धशून्यमित्यर्थः । किन्तु आत्महितमात्मनीनं सुख - स्वरूपत्वात् * आत्मन्विश्वजन भोगोत्तरपदात्ख' इति खप्रत्ययः - • आत्मलीनमि' ति पाठे- आत्मन्यन्तरात्मनि - लीनं निलीय स्थितं - सर्वान्तर्यामित्वात् । ब्रह्म । कथं । न संस्मरसि न ध्यायसि - सर्वथा स्मर्तव्यमित्यर्थः। कुतः • येन संस्मरणेन। निर्वृतिमानन्दमेषि प्राप्नोषि । अतः - यथाकथंचित्स्मरणऽप्यानन्दजनकत्वादवश्यं स्मर्त - व्यमेव-

‘हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥

इत्यादिवचनादिति भावः ॥

  ॥ इति वैराग्यशतके मनस्संबोधननियमनं संपूर्णम् ।।