पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीरस्तु ॥

॥ भर्तृहरिसुभाषितम् ॥

॥ नीतिशतकम् ॥


॥ व्याख्यानपीठिका ॥

वन्देऽहं रघुनन्दनाङ्घ्रिसरसीजातद्वयीमद्वया-
मन्दानन्दमरन्दबिन्दुलहरीसंदोहनिष्यन्दिनीम् ।
यत्रेन्दिन्दिरजातवन्मुनिमनोबृन्दं कृतस्वाश्रयं
काञ्चित्तुन्दिलतामविन्दत परानन्दावबोधोदयात् ॥

श्रीमांस्त्रैलिङ्गादेशे स जयति विबुधश्रेणिकोटीरकोटी
कोटीमाणिक्यभूतागणितगुणगणोऽखण्डपाण्डित्यशौण्डः ।
धीरः शाण्डिल्यगोत्रः सकलकविकुलाह्लादिसूक्तिप्रवीणो
वीणोदाहार्यविद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्रः ॥

वेदान्तोदन्तचिन्तामतनुत चतुरेणान्तरेणाकुतर्कं
तर्कं चातर्कयद्यः फणिपतिवचसां सारमादत्त योगे।
यो गेयः सांख्यसंख्यागमसमयविधावप्यलं तन्त्रविद्या-
विद् यो यामिन्यधीशः स्फुरति निरुपमो वञ्चवंशाम्बुराशौ ॥

विप्रेणाभूतपूर्वं फलमधितपसाऽलम्भि सूर्यप्रसादा-
ल्लब्ध्वा तस्मात् स्वयं तत् प्रचुरतरजरापञ्चताकुञ्चनाढ्यम् ।