पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
वैराग्यशतके


विजनाः विविक्ताः । बनान्ता वनप्रदेशा स्सेव्या इति शेषः । तन्न किमस्तीत्याशङ्कायामाह बैराग्यात्परमन्य त्किमर्थनीयमभिलषणीय न किमपीत्यर्थः। तस्यैव परमश्रेयस्साधनत्वादिति भावः ॥

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ।६९

 व्या.-अथ ब्रह्मविचारतत्परस्य ते सर्वेऽपि भुवनाधिपत्या- दयस्तुच्छा एव प्रतिभान्तीत्युपसंहरति - तस्मादिति--तस्मात् यस्माद्वैराग्यमेवार्थनीयं तस्मादित्यर्थः । हे चेतः। अनन्तमपरिच्छिन्नं त्रिविधपरिच्छेदशून्यं । तथा अजरं जन्मजरामरणवर्जितम् । अत एव । परमं सर्वोत्कृष्टं । तथा । विकासि विकस्वरं सर्वव्यापीत्यर्थ:- यद्वा - विकासि भास्वरं । तद्ब्रह्म । चिन्तय विचारय । एभिः क्रिय • माणै रसद्विकल्पैरसद्विरसाधुभिः - असत्यैर्वा - विकल्पै स्वत्तद्भोग प्राप्त्यप्राप्तिगोचरविचारैः किं - विकल्पसाध्यं नास्तीत्यर्थः * गम्य मानसाधनक्रियापेक्षयाकरणत्वात्तृतीया न केवलं अयमाणैव क्रियानिमितं कारकभावस्य • अपि तु गम्यमाना पीति वचनात् यत्तदोर्नित्यसंबन्धात्तच्छब्दस्य यच्छन्दाकाक्षायामाह - यस्व ब्रह्मणः -- अनुषङ्गिणः सम्बन्धवन्तः यद्ब्रह्मविचार इत्यर्थः । तवेति। शेषः । इमे काम्यमानाः । भुवनाधिपत्यं लोकाधिपत्यं - भोगः स्वर्गादिसत्यान्तलोकसमुदायस्थः - तावादी येषां ते तदादयो भोगाः। कृपणलोकानां ब्रह्मविचारहीनजनानां - मताइष्टा योग्या इति यावत्