पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
मनस्संवोधननियमनम्


वैर्धनैः। प्रणयिनस्सुहृद संपादिताः संगृहीताः - वशंवदीकता इत्यर्थः। 'सम्मानिता' इति पाठे बहुमानिता। ततः तथा कल्पस्थिताः कल्पान्तरस्थायिन्यइत्यर्थः । तनवः शरीराणि। संपादिता इति संबन्धः। केनचिद्योगेन संगृहीताः। ततः किम् ? तेषां श्रेयस्सा- वनत्वनिषेधादिति भावः ॥ एतदादिश्लोकचतुष्टयं वसन्ततिलका - वृत्तम् ॥

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति क्रिमितः परमर्थनीयन् ।।६८

 व्या.--नन्वेवं श्रेयस्साधनत्वेन व्यवह्रतानामेतेषां निषेधे किमन्यच्छ्रेयस्साधनमित्यत आह - भक्तिरिति.हे चेतः । भवे शम्भौ । भक्तिभजनानुरागः कार्य इति शेषः । किं च मरणजन्म - भ्यां महोपद्रवकारिम्यां निधनोत्पत्तिभ्यां - भयं - - हृदि तिष्ठतीति ह्रदिस्थं कर्तव्यमिति शेषः - न तु विस्मर्तव्यमिति भावः । बन्धुषु पुत्रमित्रकळत्रादिषु विषये । स्नेहोऽनुरागो न न कार्यः तथा । मन्मथाजायन्त इति तथोक्ता विकाराः स्त्रीपरतन्त्रत्वादयः । न न कार्याः - श्रेयोन्तरायत्वादिति भावः । इत्थं श्रेयस्साधनत्वेन कर्त - 'व्यद्वयं तदसाध्यत्वेनाकर्तव्यद्वयं चोपदिश्येदानीं पुनर्मुख्यं कर्तव्या - न्तरमुपदिशति - संसर्गदोषैरसङ्गन्दोषैः - रहिताः कामक्रोधादिप्रस - ङ्गवर्जिता इत्यर्थः - “सङ्गात्संजायते काम ' इत्यादिभगवद्वचनेन सङ्गजनितकामादि दोषपरम्पराया अनर्थहेतुत्वादिति भावः। कुतः .