पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
वैराग्यशतके


कन्याकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसी-
रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ।। ३५

 व्या.---अथ प्रकारान्तरेण सम्बोधयति - चेत इति-हे चेतः । अस्थायिनीमास्थिरां। कुतः - भूपालानां राज्ञां - भ्रुकुटी भ्रूभङ्ग एवं कुटी कुटीरं - तत्र विहरणं विहारो यस्य तथोक्तो यो व्यापारस्तेन - पण्याङ्गनां व्यभिचारिणीमिति यावत् - भ्रूसंज्ञयानरवरणशीला - मित्यर्थः । तदायत्तत्वात्तस्या इति भावः - यद्वा - भूपालभ्रुकुटी - कुटीरे विहरणमेव व्यापारो यस्यास्सा तथोक्ता सा च - पण्याङ्गना वारविलासिनी - तां तथाभूतां तदधीनत्वात्तत्प्रयुक्तप्रवृत्तिनिवृत्ति कामित्यर्थः । अत्रपण्याङ्गनारूपणं विहारे विशृङ्गलस्वद्योतनार्थं नैय - त्येन व्यभिचरणशीलस्वप्रकटनार्थ च - यथा वारवनिता कुत्रचित् कंचित् कालं विहृत्यानन्तरमन्यत्र गच्छति तद्वदिति ध्वनिः। इह कानि- चिदर्थान्तराणि स्फुरन्ति बुद्धिमद्भिरुन्नेयानि - ग्रन्थगौरवभयान्नलि- ख्यन्ते। तामिमां परिदृश्यमानां। रमां संपत्तिम्। आस्थया आदरेण । सकृत्कदाचिदपि माचिन्तय माकाङ्क्षय - तत्संपादनप्रयत्नं माकु र्वित्यर्थः। तर्हि कथं जीविकेत्याशङ्कायामाह - कन्थैव कञ्चुकमेषा- मस्तीति कन्थाकञ्चुकिन: - कन्थावर्मितगात्रास्सन्तः । अन्न यद्यपि बहुव्रीहिणैव विवक्षितार्थलाभात्पुनः प्रत्ययान्तरग्रहणे प्रक्रियागौरवं न कर्मधारयान्मत्वर्थीय' इति निषेधात् - तथाऽपि त्वगुत्तरास ङ्गवती' कोकप्रीतिचकोरपारणपटुज्योतिष्मतीलोचने' इत्यादिमहा' कविप्रयोगश्च वर्तते इति वैयाकरणाः कथयन्ति - यद्वा · कन्थया कश्चुकिनः कञ्चुकवन्तः कन्थाच्छादितगात्रास्सन्त इत्यर्थः । वय -