पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८९
मनस्संबोधननियमनम्


तमतिक्रान्तमर्थमननुस्मरन्नचिन्तयन्नननुशोचयन्नित्यर्थः । तथा भावि चापि भविष्यदर्थमपि घ वस्तु सामस्त्ये नपुंसकत्वनिर्देशः। असङ्कल्पयन्ननाकाङ्क्षन् अतर्कितोऽनभ्यूहितस्समागमो येषां ता नचिन्तितोपनतानित्यर्थः । भोगाविषयाननुभवामि दैववशात्सं भाषितार्थान् भोक्ष्यामि * वर्तमानसामीप्ये वर्तमानप्रत्ययः - यद्वा- अनुभवामि मुञ्चे अतो मदर्थं न परिभ्रमितव्यमिति भावः; एवं चेत्सर्वेश्वरस्याप्यवश्यं प्रियो भवेयमिति तात्पर्यम् - तदुक्तं भगवता.

'यो न हृष्यति न द्वेष्टि न शोचति न कामक्षति। शुभाशुभपरित्यागी भक्तिमान्यस्स मे प्रियः ।। अन्यत्राप्युक्तं -

गतार्थान्नानुशोचन्ति नार्थयन्ते मनोरथान् । वर्तमानेन वर्तन्ते तेन मे पाण्डवाः प्रियाः '॥ इति ।

पृथ्वीवृत्तं - ' जसौं जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । स्वात्मीभावमुपैहि सन्त्यज निजां कल्लोललोलां गतिं ५ मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना॥ ६३

  व्या...-अथ विशिष्यसंबोधनप्रकारमेवाह - एतस्मादिति.-- हे चेतः। एतस्मात् परिदृश्यमानात् । आयासयतीत्यायासकात् दुःख- जनकात्। इन्द्रियार्थाशब्दादिविषया एव गहनमरण्यं - तस्मात् 19