पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
यतिनृपतिसंवादवर्णनम्
२८५


जडामन्दाः विषादे स्वल्पतमभूखण्डाधिपतयो वयं जाता इति विषादे दुःखे । कर्तव्ये सति । प्रत्युत वैपरीत्येन । मुदं संतोष । विदधति कुर्वन्ति मोदन्त इत्यर्थः । अहो महानयमेतेषामविवेक इत्यर्थः । १५ प्रत्युतेत्युक्तवैपरीत्य' इति गणव्याख्याने ।

मृत्पिण्डो जलरेखया क्लयितस्सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव संगरशतैराज्ञां गणाभुञ्जते ।
तेदद्युर्ददतोऽथवा कि मपरं क्षुद्रा दरिद्रा भृशं
धिन्धिक्तान् पुरुषाधमान् धनकगान् वाञ्छन्ति तेभ्योऽपि ये।

 |व्या.-आस्तां तावत् क्षुद्रनृपवार्ता - तद्याच्ञापरास्तु ततोऽ प्यत्यन्त क्षुद्रा इत्याह - मृत्पिण्ड इति.--जलरेखया समुद्राकारेण जलरेखया जलधारया ध। बलयितो वेष्टितः - पुञ्जीकृतश्च । योऽयं परिदृश्यमान सर्वः अशेषोऽपि मृत्पिण्डश्च । अणुर्ननु । तं तादृश मृत्पिण्डमेव । संगरशतैः युद्धशतैः। स्वांशीकृत्य स्वभागीकृत्य। ये राज्ञां गणाः। भुञ्जते अनुभवन्ति । तेराजगणा । दद्यर्हि अर्थ वितरेयुर्वा * दधातेर्भविष्यति लिङ । अथवेति पक्षान्तरे। ददतः वितरन्तो वा ददातेर्वतमाने शतप्रत्ययः नाभ्यस्ताच्छतु रि' ति नुमभावः . ' ददतेऽथवेति वा पाठः । अपरमन्यदुष्करं। किमपि नास्त्येवेत्यर्थः । भृशमत्यर्थं क्षुद्रा हीनाः । दरिद्रा दीनाश्च - अनेक संयुगक्लेशार्जितमृत्पिण्डभोक्तृत्वात् क्षुद्रत्वं - तत्राप्यंशभ - गित्याद्दरिद्रत्वं चावगन्तव्यं। ततस्तेभ्यः क्षुद्रदरिद्रयो राजग. णेभ्यो ये पुरुषाधमाः धनकणान् धनलेशान् वान्छन्त्यभिलषन्ति । तान् पुरुषाधमान् • मानुषापशदान् । धिग्धिक कूर्पराधःप्रसृतजल -