विनोदो भवतीति भावः * ' तेन वित्तश्चुञ्चुप्चणपाविति चुञ्चु -
प्रत्ययः । तथा । स्तनमारैः कुचकुम्भभारै-रानमिता ईषनम्राङ्गयः ।
• योषितोऽपि । न न भवामः - येन ससंरभ्भसंभोगौत्सुक्यं भवे -
दिति भावः । अतो नृपं राजान मीक्षितुं द्रष्टुम् । अत्र नटादिषु ।
वयं के न केचित्यर्थः । एतेषामन्यतरत्वे योग्यता स्यादिति भावः;
एतेन असमानामेवावकाशप्रदो न तु सभ्यानामिति नृपस्य निन्दा-
गम्यते ; ' नृप वीक्षितु मिति पाठः - तदा - हेनृपेत्यामन्त्रणं ..
त्वामिति शेषः - अन्यदुक्तार्थम् ।।
वैताणीयाख्यमर्धसमवृत्तं-
'षड्विषमेऽष्टौसमे कला ष्षट्च समे स्यु निरन्तराः ।
न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः' ।
इति लक्षणात् ॥
विपुलह्रदयैराशै रतज्जगज्जनितं पुरा
विधतमपरैर्दत्तं चान्यै र्विजित्य तृर्णं यथा।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क ए.. मदज्वरः ।।
व्या..-निन्दामेव चतुर्भिः प्रपञ्चयति - विपुलेति..--पुरा- (पूर्वकाले । विपुलहदयैर्महामानसैरुदारबुद्धिमिरित्यर्थः। ईशैर्ह - रिश्चन्द्रादिसार्वभौमै । एतत्परिदृश्यमानं । जगद्भूमण्डलं । जनित • मुत्पादितं • समग्रधर्माचरणेनसंस्थापितमित्यर्थः। तथाऽपरै र्ययाति- प्रभृतिभिरीश्वरै विधृतं विशेषेण धृतं सम्यकपरिपालित मित्यर्थः । तथाऽन्यैर्बलिप्रभृतिभिः विजित्य शत्रुजयेन खवशं कृत्वा । तृणं