पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
यतिनृपतिसंवादवर्णनम्


हतये प्रक्षाळनार्थं - बुद्धिशुद्धिद्वारा झानावाप्त्यर्थमित्यर्थः । श्रोतुं | कामोऽभिलाषो येषां ते श्रोतुकामाः - शुश्रूषवः - 'गुरुमुखाच्छ्रो -

तव्यमिति न्यायेनास्मन्मुखाच्छास्त्रार्थश्रवणेच्छवः - गुरुशुश्रषया

पिथे' त्युपदेशवचनविश्वासवन्तश्शिष्या इत्यर्थः - सेवन्ते इति संबं- न्धः * 'तुं काममनसो रपीति तुमुनो मकारलोपः । अतः हे राजन् । ते मय्यपि। आस्था न चेदनादरो यदि । तदा ममत्वय्यपि । नितरामत्यन्तं * अव्ययादांप्रत्ययः। अनास्था निरपेक्षत्वादिति - भावः । एष राजन् गतोऽस्मि ' इति पाठे अन्यत्र गमिष्यामी - त्यर्थः वर्तमानसामीप्ये वर्तमानप्रत्ययः ; स्वस्य निरङ्कुशत्वद्योत - नार्थमेतच्छब्दप्रयोगः ; पूर्वश्लोकोक्तभाव एवात्राप्यनुसंधेयः ।।

 स्रग्धरावृत्तम् ॥

वयमिह परितुष्टा वल्कलैस्त्वं दुकलै-
स्सम इह परितोषो निर्विशेषो विशेषः।
स तु भवतु दरिद्रो यस्य तृणा विशाला
मनसि च परितुष्टे कोऽर्थवान् कोदरिद्रः

 व्या.---'अथ कथमन्यत्र गमिध्यसीत्याशङ्कायामस्माकं नित्यसंतुष्टान्तःकरणत्वान्न किञ्चिदपि कृच्छ्रमित्याह - वयमिति - हे राजन् । वयभिहेदानीं । वल्कलेर्दारुत्वनिर्मितचीवरैः। परितुष्टा स्सन्तुष्टाः। त्वं । दुकूलैः क्षोमैर्विचित्रचीनाम्बरैरित्यर्थः। परितुष्ट इति वचनपरिणामेन संबन्धः । परितोषः संतोषः । अस्माकं तव च। सम इव तुल्य एव - इव शब्दोऽत्रावधारणार्थकः। विशेष: अन्यतरोत्कर्षस्तु । निर्विशेषो विशेषरहित: - मामक तावक परि-