पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
वैराग्यशतके


स्तत्तद्वेषधारी नर्तक इव - संसारस्य बाल्यौवनाद्यवस्थानुभवरूपसं- सारकपटनाटकस्य - नाट्यप्रसङ्गाडम्बरस्य च - अन्ते अवसाने । यमो धीयतेऽत्रेति यमधानी यमराजधानी संथमनीनाम्नी यमपुरी *

  • ' करणाधिकरणयो श्चे' ति ल्युट - टित्त्वात् ङीप् - सा यवनि-

का प्रतिसीरा तिरस्करणीव - तां विशति मृतो भवति - अन्यत्र प्रविष्टो भवतीत्यर्थः - नि. ' प्रतिसारा यवनिके' त्यमरः ; नटे विशे षणानि योज्यानि ॥

उपमालंकारः शिखरिणीवृत्तम् ॥  इति वैराग्यशतके कालमहिमानुवर्णर्नं सम्पूर्णम् ।।

॥ यतिनृपतिसंवादवर्णनम्

वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः

 व्या.----अथ इह कश्चित्कुतश्चिद्भाग्योदयादित्थं भूतकाल- वैषम्यं ज्ञात्वा वैराग्याद्यदि यतिर्भवेत्तदा नैरपेक्ष्यात्तृणमिव जगज्जा- लमालोकयन्नवर्धीरितानुवर्तनेच्छू राज्ञा सह संवादं कर्तुं शक्नुयान्ना- न्यथा। अतो निरङ्कुशत्वयतिभावोऽवश्यं संभाषनीय इति विवेकिनां. ज्ञापयितुं तत्संवादप्रकारमाह - त्वमिति.-त्वं। रञ्जयतीति राजा महोन्नत इत्यर्थः। वयमप्युपासितास्सेवितां गुरवः आचार्याः - यया सा तथोक्ता - 'आचार्यवान् पुरुषो वेदेति श्रुतेः - निरन्तर-