पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
विद्वत्पद्धतिः

तथा च विद्यावान राजसभासु पूज्यते पुरस्क्रियते संभाव्यत इति यावत्। धनं द्रव्यं तु। न ह्युक्तप्रकारं न भवतीत्यर्थः । तस्माद्विद्यया- उक्तरूपया - विहीनश्शून्यः जनः। पशुः पशुप्रायः - कर्तक्या- कर्तव्यविवेकराहित्यादिति भावः। ततो बहूपकारकत्वाद्विशिष्ट विद्यैव प्रधानं न त्वन्यदिति तात्पर्यम् ॥

 अत्र विद्यायाः रूपधनाद्याकारेण बहुधा निरूपणान्निरवयव- मालारूपकालंकारः॥

क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किमु धनं र्विद्याऽनवद्या यदि
व्रीडा चेत्किमुभूषणैस्सुकविता यद्यस्ति राज्येन किम्॥

 व्या.--अथलोकहितवर्णनप्रसंगात्तस्या एवं प्रकृष्टैश्वर्यभाव- माह - क्षान्तिरिति.--देहिनां प्राणिनां - क्षान्तिः तितिक्षा - परि- भवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धक इति यावत्। अस्तिचेतहि । कवचेन वर्मणा । किं फलमिति सर्त्रत्रानुपज्यते न किंचिदपीत्यर्थः - तस्या एवारुन्तुदानामनवकाशप्रदत्वादितिभावः। क्रोधचित्तक्षोभोऽस्ति चेत्। अरिभिः शत्रभिः किम् ? तस्यैवान्तश्शत्रुत्वादुपद्रवहेतुत्वाच्चेति भावः। ज्ञातिर्दायादोऽस्ति चेदनलेनाग्निना किम् ? तस्यैव सर्वार्थ- निर्मलननिदानत्वादिनि भावः । सुह्र्त् सन्मित्रमस्ति यदि * 'सुहृद्दुर्हृदौ मित्रामित्रयोरि'ति निपातनात्साधुः। दिव्योषधैः सिद्धौषधैः किं फलम् ? न किंचिदपि - तस्यैवारोग्यकरत्वादिति भावः । दुर्जना: