पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
वैराग्यशतके


त्यादिभिः त्रिभिः - न ध्यातमिति.-संसारविच्छित्तये संसारोच्छे- दार्थ मोक्षप्राप्त्यर्थमित्यर्थः। ईश्वरस्य शंभोः * 'स्थेशभासे' त्या- दिना वरम्। पदं पादारविन्दयुगळमित्यर्थः। विधिवत् विध्यहं . यथाशास्त्रमित्यर्थः * 'तदर्हमिति बतिप्रत्ययः। न ध्यातम् एकाग्र- चित्ततया न ध्यानविषयीकृतं - यतः “ शम्भुपादाम्बुजध्यानं साक्षा- न्मोक्षैकसाधनिमै 'त्यनेक पुराणेतिहाससंहितावचनैस्साक्षान्मोक्षसा- धनतया विधेय मित्यभिहितं शम्भुपदध्यानं न विहितमितस्तत्साध्य- मोक्षपुरुषार्थो न संपादित इति भावः । तथा धर्मार्थासंपादनानुशो- चनं कथयन्ति- 'अत्र अथातो धर्मजिज्ञासे' त्युपक्रममाणस्सूत्रकृन्म- हर्षिधर्मस्य प्राधान्येन स्वतस्सिद्धं पुरुषार्थत्वं मन्यते - फलं स्वानुष- ङ्गिकम् - अन्ये पुनस्साक्षात्परम्परया च स्वर्गापवर्गपुरुषार्थद्वयसाधन- तया सुखहेतौ चन्दने सुखत्ववदौपचारिकं मन्यते तत्र च द्वितीयं पक्षमाश्रित्याह - स्वर्गेति - अत्र स्वर्गशब्दोऽपवर्गस्याप्युपलक्षकः - तथा च स्वर्गापवर्गयोः कवाटयोः पाटने विदलने पटुः समर्थः । स्वर्गापवर्गसाधक इत्यर्थः। धर्मो ज्योतिष्टोमादिरपि नोपा- र्जितः न संपादितः। यतः - ज्योतिष्टोमेन स्वर्गकामो यजेत' --- 'धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्ष मवाप्नुयादि'त्यादिश्रुतिस्मृतिभिः पुरुषार्थद्वयसाधकत्वेनावश्यमनुष्ठेय इति बोधितो धर्मोऽपि नानु- ष्ठितः - अतस्तत्साध्य पुरुषार्थद्वयमपि न सिद्धमिति भावः। अत्र देहळीदीपन्यायेन स्वर्गापवर्गसाधकत्त्रकथनं धर्मस्य कश्चिदतिशयं द्योतयति - ततो न पौनरुक्तयमित्यनुसंधेयं। तथा नारीणां पीनौ पीवरौ यो पयोधरौ स्तनौ तयोः उरु दुर्भरं यद्युगळं पीवरदुर्भरकुच-