पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
पैराग्यशतके


व्ययसंज्ञकाविति वचनात् । परिभ्रमत संचरत - न परिभ्रमितव्य - मित्यर्थः । संचितकर्मवशास्वत एव तेषां संभाव्यमानत्वादिति भावः । अतश्चेष्ठितैगसंग्रहव्यापारैः । कृतं तत्संग्रहव्यापारा न कर्तव्या इत्यर्थः - कृतमिति निषेधार्थकमव्ययं चादिषु पक्ष्यते - ' कृतमिति निवारणातिनिषधयोरिति गणव्याख्याने। तहि किमतः परं कर्त- व्यमुपदिश्यत इत्यतआह-अस्मद्वधः अस्मदीय मुपदेशवचनं । श्रद्धेयं यदि विश्वसनीयं चेत्-युष्माभिरिति शेषः । आशा अतितृष्णातस्याः- पाशा रजवइव-बन्धहेतुत्वात - नि. 'आशादिगति तृष्णयो रिति वैजयन्ती-तेषां शतानि-अनेकआशापाशा इत्यर्थ:-तेषा मुपशान्योप- शमनेन - विशदं निर्मलं चेतश्चित्तं कामोत्पत्तिवशात् अनुरागोदय: वशात् - अनुरागमुत्पावेत्यर्थः । स्वरूपमात्मा तद्रूपं - धाम स्थान - तस्मिन् - नि. 'खो ज्ञातावात्मनि स्वमि' त्यमरः । समाधीयतां स्थिरीक्रियताम् - अन्तरात्मप्रवणमेव क्रियतां - नबाह्यविषयासक्त - मित्यर्थः • अन्यथा तु महाननर्थस्स्यादिति भावः - यद्वा-स्वशब्देन । जीव उच्यते - तस्य धामनि निलयस्थाने परब्रह्मणि - अथवा - स्वधामनि स्वयंज्योतिषि - खरूपभूततेजसीति वा - इहात्यन्त विप्र - कृष्टार्था बहवः परिस्फुरन्ति - विस्तरभयान्न लिख्यन्ते। समा - धीयतां समाहितं क्रियतामित्यर्थः ; अयमेव हितोपदेष्ट्रवान्मुख्यगु- रूणामस्माकं परमोपदेशः - एतद्विश्वासेनान्यासङ्गं परित्यज्य मनो ब्रह्मणि कृत्वा तदाज्ञया श्रेयस्संपादनीयम् -

सत्संप्रदायसंयुक्तब्रह्मविद्याविशारदः ।
एवमादिगुणोपेतो देशिकोऽशेषवन्दितः