पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
वैराग्यशतके


सास्पद मित्यर्थः । वृद्धभावो वृद्धत्वमायसाधुरसमीधीनः - अप - हसास्पदीभूतस्य कुतस्साधुत्वमिति भावः । अतः । रे मनुष्या: - रे इति नीचसंबोधने - नीचत्वं च सांसारिकत्वादिति द्रष्टव्यं - नि. 'नीचसंहबोधने तु रे' इत्यमरः । संसारे गर्भवासजन्मजरादिरूपे। स्वल्पं तुच्छं। किंचिदीषदपि । सुखमास्ति यदि वर्तते चेत् । तर्हि । तद्वदत ब्रूत ; अतः किमर्थ क्लिश्यत गर्भनिरयवासादिसांसारिक - दुःखैः । पुनरावृत्तिरहितनित्यनिरतिशयानन्दबन्धुरब्रह्मपदप्राप्त्यर्थ - मेव प्रयतध्वमित्यर्थः॥

व्याद्रिव तिष्ठति जरा परितर्जयन्ती
रोगाथ शत्रय इव प्रहरन्ति देहम् ।
आयुः परिषवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम्
।।

 व्या.....अथ स्वविनिपातहेतौ सन्निहिते लोका न कुशला भवन्ति महदेतदाचामत्याह - व्याघ्रीति.--जरा वार्धकावस्था । व्याघी व्याघ्राङ्गनेव * 'जातेरखीविषयादयोपधादि' ति डीप् । परितर्जयन्ती भीषयन्ती सतीतिष्ठति कळेबरकबळनाभिनिवेशेन वर्त- माना मृत्योः प्रत्यासत्ति मभिनिवेदयतीत्यर्थः । रोगाः वातपित्तश्ले - मादिम्याधयश्च । शत्रवो वैरिण । इव । देहं । प्रहरन्ति ताडयन्ति - परिपडियन्तीत्यर्थः। आयुश्च भिन्नघटात सच्छिद्रकलशात् अमन इव परिस्रवति प्रतिक्षणं नश्यतीत्यर्थः। तथाऽपि लोको जनः । अहितं । परापकारमाधरतीति चित्रमाश्चर्यम् । परापकारा- दन्यत्किमकुशलमिति भावः . यद्वा - अहितं स्वस्यानिष्ट माच -