पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
भोगास्थैयवर्णनम्


मालिङ्गन मिति यावत् * भावेक्तः। प्रणीतं रचितं । तदपि प्रौढा. गनालिङ्गनमणि । न चिरं चिरकालावस्थायि न भवतीत्यर्थः । अतः हे बुधाः भवात्संसाराधद्धयं - तदेवाम्भोधि - स्तस्य पारं। तरीतुं संसारसागरमुल्लवितुमित्यर्थः । ब्रह्मण्यासक्तचित्ता भवत ब्रह्म- ध्यानकतत्परा भवतेत्यर्थः - न ह्येतव्यतिरेकेण तरणोपायं किंचिदपि पश्यामीति भावः । त्रिवारशुद्ध्या दृढतरविश्वासोत्पादनार्थ त्रिभि - इश्लोकैः परमार्थपर्यवसायिनी ब्रह्मध्याननिष्ठोपदिष्टा - न त्वनर्थ - पर्यवसायिनी संसारासक्तिः - यदत्र युक्तं तद्गाह्य तत्त्वविचारपारा - वारपाणैिरिति श्लोकत्रयतात्पर्यम् ॥ स्रग्धरावृत्तम् ।।

कृच्छ्रेणामध्यमध्ये नियमिततनुभिस्स्थीयते गर्भवासे
कान्त्ताविश्लेषदुःखव्यतिकरविषमो यौचने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसति वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यारीत किञ्चित
।।

 व्या.-ननु लोके प्रायशस्संसारसुखतत्परा एव दृश्यन्ते - अतः कथमयं निषिध्यत इत्याशझ्यादित आरभ्य विधार्यमाणेन . तत्र सुखलेशोऽप्यस्तीत्याह - कृच्छेणेति. ---गर्भवासे गर्भावस्थान - दशायाम् अमेध्यमध्ये मूत्रपुरीषमध्ये। नियमिततनुमिस्संकुचित - हात्रैः - प्राणिभिरिति शेषः। कुच्छ्रेगातिकष्टेन स्वीयते । तथा यौवने । उपभोगस्संभोगश्च । कान्ताविश्लेषेण प्रियतमावियोगेन - यो दुःखव्यतिकरो दुःखसंपर्क - स्तेन - विषमः विकलः । भवतीति शेषः। तथा। वामाक्षीणां मनोहरनयनानामवज्ञाविहसितानामय - मानपूर्वकपरिहासानां - वसतिः स्थानं - तासां तस्य हेतुत्वात्परिहा-