पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
भोगास्थैयैवनणैनम्


नुग्रहपेशलेन मनसा यत्नः समाधीयताम् परमदयाळुत्वप्रयुक्तानुग्रह- तया युष्माभिज्ञानोपदेशादिना संसारार्णवनिमग्नाज्ञजनास्तारयितव्याः - न तूपेश्याः - तथाविधजनाद्धरणे महाफलश्रवणादिति भावः। यद्वा - लोकानुग्रहे - लोकसंग्रहे - पेशलेनानुरक्तन - मनसा यनः ब्रह्मध्यानप्रयत्नस्समाधीयतां - कृतार्थत्वेऽपि युष्माभिरयं यत्नः कर्त- ब्यः । यतः - युप्मत्कृतप्रयत्न तात्पर्यण जना अपि कृतार्थी भवि- व्यन्ति-

'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति ॥ भगवद्वचनात् इति भावः ; समाधीयतामिति विध्यर्थे विहितोऽयं लोदप्रयोगः। परमपुरुषार्थसाधकब्रह्मध्यानप्रयत्नस्यावश्यविधेयता वि- वक्षया विपक्षे अनर्थप्राप्तिं च ज्ञापयतीत्यवधेयम् ॥

भोगा मेघवितानमध्यविलस सौदामिनीचञ्चला
आयुवायुविघट्टिताजपटलीलीनाम्बुवद्भङ्गरम् ।
लोला यौचनलालसा स्तनुभृतामित्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विधध्वं बुधाः ॥३५

\

 व्या.---पुनः प्रत्ययदायार्थं युक्त्यन्तरलाभाच उपदिष्टमे - वार्थ भङ्ग्यन्तरेणोपदिशति द्वाभ्यां - भोगा इति.-तनुभृतां शरीरिणां भोगाः पूर्वोक्ताः । मेघवितानस्याभ्रवृन्दस्य - मध्ये - विलसन्त्यः परिस्फुरन्त्यो - यास्सौदामिन्यः तटितस्ता इव- चञ्चलाः क्षणिका इत्यर्थः - नि. 'तटित्सौदामिनी विशुदि' त्यमरः सुदाना अद्रिणा एकदिक् सौदामिनीति विग्रहः * तेनैकदिगि' त्यण ।