पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
भोगास्थोयवणनम्

भोगास्थैर्यवर्णनम् २५१ मत्सरिभिः परोत्कर्षासहिष्णुभि लोकजैनैस्तदपवादकरित्यर्थः । उप- हताः अस्ता इति यावत् । वनभुवः पुण्यारण्यप्रदेशाः । व्याळे दुष्ट गजैः सर्या-तत्प्रवेशानवकाशप्रदैरिति भावः । उपहताः प्रस्ताः । नृपा राजानः। दुर्जनैर्दुमन्त्रोपदेशेन तद्बुद्धिविपर्यासकारिभिः पिशुनै रुपहतास्समाक्रान्ता इत्यर्थः। विभूतयस्संपदोऽप्यस्थैर्येण तदप्रति - ठावहेनास्थिरत्वेन । उपहताः दूषिताः । अतः किं वस्तु। केन वा उपद्रवंश । न प्रस्तमुक्तरीत्या सर्वमपि प्रस्तमेवेत्यर्थः ; अतस्सर्व - स्याप्यस्थिरत्वान्न कुत्रापि विस्रम्भः कर्तव्य इति भावः ।।

आधिव्याधिशतैर्जेनस्य विविधैरो यमुन्मूल्यते
लक्ष्मीयंत्र पतन्ति तत्र विकृतद्वारा इत्र व्यापदः।
जातं जातमवश्वनाशु विवशं मृत्युः करोत्यात्मसा-
त्तरिक तेन निरङ्कशेन विधिना यन्निर्मितं सुस्थिरम् ।। ३३

 व्या.—पुनः श्रोतृजनस्य विश्वासदाार्थमुक्तमेवार्थ भ - ङ्ग यन्तरेणाह - आधीति.-विविधैः नानाप्रकारैः। आधीनां मनो- व्यथानां - व्याधीनां पित्तादिशारीररोगाणां च - शतैरनेकैराधिव्या - धिभिरित्यर्थः - नि. ' पुंस्याधि मानसी व्यथा' - ' रोगव्याधिगदा- मया' इति चामरः । जनस्यारोग्यं देहस्वास्थ्यमन्मूल्यते निर्मू लीक्रियते तथा यत्र यस्मिन् पुरुषे । लक्ष्मीरैश्वर्यसमृद्धिस्तिष्ठतीति . शेषः । तत्र तस्मिन् पुरुषे। व्यापदः महोपद्रवाः - विवृतान्युद्धाटित- कवाटानि द्वाराणि कवाटानि यास तास्तथोक्ताइव पतन्ति तद्विघटनार्थ मप्रतिबन्धं प्रविशन्तत्यिर्थः । तथा । मृत्युरन्तकः जातं जातं प्रारब्ध - कर्मवशात्पुनः पुनरुत्पन्न * वीप्सायां द्विर्भावः । अत एव विवशं ।