पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
वैराग्यशतके

त्यर्थः । किंतु वेराग्यमेव न विद्यते भयं यस्मान्तत् अभयं भयानवा - रणमित्यर्थः । सति वैराग्ये सर्वस्यापि मिथ्यात्वेन प्रतीयमानतया द्वितीयाभावात् ; अतः भयावह भोगादिकं परित्यज्य भयापहं वैरा -- ग्यमेवाश्रयणीयमिति तात्पर्यम् ; शेष समानम् ॥

 एतदाद्यापश्चमात् शार्दूलविक्रीडितम् ॥

आक्रान्तं मरणेन जन्न जरसा चात्युज्जलं यौवनं
सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकर्मत्सरिभिर्गुणा वनभुवो व्याळेच्या दुर्जनै-
रस्थैर्येण विभूतयोऽयुपहताग्रस्तं न कि केन वा।। ३२

 व्या.....उपक्रान्तं भोगास्थैर्य तत्तद्भग्यन्तरेण नवभिर्वर्ण - . यति - आक्रान्तमित्यादिभिः - आक्रान्तमिति.---जन्म उत्पत्तिः। मरणेन स्वरूपनाशकेन मृत्युना । आक्रान्तं प्रस्तं -

जातस्य हि ध्रुवो मृत्युर्धवं जन्म मृतस्य च ।
अद्य वाऽब्दशतान्ते वा मृत्यु प्राणिनां ध्रुवः' ॥

इत्यादिवचनादिति भावः । अत्युजलमतिशयेन भास्वरं। यौवनं नूत- नवयः तारुण्यमिति यावत् । जरसा जरया - अपायहेतुभूतया । आक्रान्त * ' जराया जरसन्यतरस्यामि 'ति जरसादेशः । संतोषः देवशालब्धवस्तुजनितपरितोषः । धनलिप्सया तदुपद्रवकारिण्या धनवाञ्छया। आक्रान्तः * लभे स्सन्नन्तात् स्त्रियामप्रत्यये टाप शमसुख मिन्द्रियव्यापारोपरमापादितानन्दः प्रौढामानानां प्रगल्भवि. लासिनीना - विभ्रमैस्तदुपमर्दकैः कटाक्षविक्षेपकर्ण कण्डूयनेन - कोमलकुचमर्दनादि विलासैराकान्तं । गुणा: । विद्याविनयादयः।