पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
भोगास्थैर्यवर्णनम्

शेषः - तस्य तदन्तरायत्वादिति भावः । कुले सद्वंशे च्युतेराधारभ्रं-

शायं - तरयास्तदप्रतिष्ठावहत्वादिति भावः - अथवा च्युतेस्सन्ता- नविछेदाद्भयं तस्यास्संप्रदायोपहतिहेतुत्वादिति भावः । वित्ते द्रव्यस- मृद्धौ। नृपालाद्राजोभयं - तस्य तदपहरीत्वादिति भावः। माने अभि- माने। दैन्यात्कार्पण्याद्भयं - तस्य तद्भङ्गहेतुत्वादिति भावः। बले सामर्थ्य । रिपोश्शनोभयं - तस्य तदमनशीलत्वादिति भावः। रूपे सौन्दर्थे । जराया वार्धकावस्थायाः भयं - तस्यास्तद्विलोपित्वादिति भावः । शास्त्रे वेदान्तादिशामकलापे वादिभ्यः शुष्कतर्ककलहकण्ट- केभ्यः । भयं - तेषां तदपरोक्षकत्वादिति भावः। गुणे विद्याविनया - दिगुणगणे। खलाह जनाद्भयं - तस्य तदपकत्वादिति भावः। काये देहे। कृतान्तामाद्भयं - तस्य तदन्तकरत्वादिति भावः - नि- 'कायो देहः क्लीपपुंसोः' - 'कृतान्तौ यमासिद्धान्तावि 'ति चामर:- सर्वत्र के भीत्रार्थानां भयहेतु' रित्यपादानत्वात्पञ्चमी । अतः भुवि नृणां संबन्धि । सर्व वस्तु - भोगाद्यशेषार्थजातं । भयान्वितमुक्तरीत्या भयसहितं - सान्तकत्वात्सापायमित्यर्थः । किंतु। विगतो रागो विषयाभिलाषो - येषां ते विरागास्तेषां भावो वैराग्यं - तदेकमेव । न विधते भयं यस्य तदभयं भयहेतुत्वाभावान्निर्भय निरातङ्कत्वाभिरपाय - मित्यर्थः - यहा - विरागाः अस्थिरभोगा - स्तेषां भावो वैराग्यं - सद्रेकमेव न विद्यते भयं यस्य तदभयं । भयहेतुत्वाद्यभिनिवेशं परि- त्यज्य सुस्थिरवैराग्यमेवाश्रयणीयं श्रेयस्कामैरिति भावः ; इत्थं भोग इत्यादिष्वधिकरणसप्तम्याश्रयणन व्याख्यातं • सति सप्तम्याश्रयणे स्वेवं व्याख्येयम्---अतस्सर्व भुवि नृणां भयान्वितं भयाकरमि -