पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
याादैन्यदूषणम्

परितोषाभावात्तत्प्रयुक्तयाच्ञादैन्यविभ्रान्तिं तत्त्वविचारेण निरस्य संतुष्टान्तःकरणे र्भवितव्यमायुष्मद्भिरिति तात्पर्यम् ॥

 शार्दूलविक्रीडितम् ॥

भिक्षाहारमदैन्यमप्रतिसुखं भौतिच्छिदं सर्वतो
दुर्मात्सर्य मदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहमप्रयत्नसुलभ साधुप्रियं पावनं
शम्भो स्सत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्रराः॥ ३०

 व्या.—तर्हि कथं जीवनमित्याशङ्कय तदुपायं सपरिकरं निवेदयन्निगमयति - भिक्षति.--योगीश्वराः परमार्थतत्त्वज्ञाः महा योगिनः । भिक्षाहारं भैक्षाशनं कर्म । न विद्यते याच्ञादैन्यं याच्ञा- कार्पण्यं यस्मिस्तत्तथोक्तं। देहात्युच्चारणानन्तरमेव सद्गृहस्थै - र्बहुमानपूर्वकं दीयमानत्वादिति भावः - यद्वा-व्यावहारिकदैन्यसंभ - वेऽपि पारमार्थिकदैन्याभावादिति भावः। न विद्यते प्रतिसुखं यस्य तत्तथोक्तं - स्वयमेव निरतिशयसुखं - न तु स्वस्य प्रतिभटभूतं सुखा न्तरमस्तीत्यर्थः । सर्वतस्सर्वत्राऽपि । भोतिच्छिदं भयविनाशकं - भिक्षाशनतत्परस्याकुतोभयत्वादिति भावः । दुष्टानां दुस्वभावानां - मात्सर्यमदाभिमानानामसहिष्णुत्वदर्पाहंकाराणां - मथनं निरासकं । दुःखौघविध्वसनं सांसारिकाशेषबाधानिवर्तकं - यद्वा - दुःखौघस्य भएकविंशतिमहादुःखसमुदायस्य - विध्वंसनं विच्छेदकं - एका ि- शतिमहादुःखध्वंसरूपमोक्षनिदानमित्यर्थः - 'आत्यन्तिकदुःख - ध्वंसो मोक्ष' इति वैशेषिकास्तार्किकाश्च । अत्र यत्किंचि वक्तव्य मस्ति - विस्तरभयानोच्यते । सर्वत्र सर्वेष्वपि देशेष्वित्यर्थः । तत्राऽप्यन्वहं