पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
वैराग्यशतके

भवितव्यं - न तु तद्वद्दुर्दशाभाग्भिरिति निगूढोपदेश स्तात्पर्यार्थवि - षयीकृत इत्यवधेयम् ।। मन्दाक्रान्तावृत्तम् ।।

ये सन्तोषनिरन्तरप्रमुदिता स्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णा हता।
इत्थं कस्य कृतेः कृत स्सविधिना कीदृक्पदं स-पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्नमे रोचते ॥ २९

 व्या.- अथ तृष्णाया यावताऽप्युपसंहाराभावात्किं याच्या दैन्येनेत्याह - य इति...~ये पुंमांसः । दैवाल्लब्धेन वस्तुना जनितो मनोविलासस्संतोष-स्तेन निरन्तरं सततं - प्रमुदिताः परितुष्ठाः .. तृप्ता इति यावत् । तेषां मुदः आनन्दा न भिन्नाः - किंतु प्रवृद्धा एवेत्यर्थः । तथाऽन्ये इतरे ये पुमांसः। धने लुब्धा गार्द्ध्यवती - अतएव संकुलाधीर्येषां ते तथोक्ता । स्तेषां । तृष्णा वस्तुस्पृहा । न हता न विरतेत्यर्थः-धनलोभस्येयत्ताभावादिति भावः । इत्थमेवं व्यवस्थिते- सतीति शेषः - सः प्रसिद्धः। संपदा रत्नादिसमृद्धीनां । तादृगित्थ- मिति वक्तु मशक्यं। पदं स्थानमनिर्वाच्यधनसंपदास्पदमित्यर्थः । तथा। स्वात्मन्येव स्वस्मिन्नेव समाप्तः पर्यवसितः - न तु परोपकार- पर्याप्त इत्यर्थः । तादृशो। हेममहिमा काञ्चनसंपत्ति र्यस्य तथोक्तो । मेरु र्विधिना ब्रह्मणा । कस्य कृते कस्य पुंसः प्रयोजनार्थ । कृतो निर्मितः - नित्यसंतोषसंपन्नानामनपेक्षितत्वादर्थलुब्धाना मपर्याप्तत्वा- च्चानुपयोगादिति भावः । अतो निरर्थकत्वात् - मे मह्यं । न रोचते- रुचिगोचरो न भवति-न सम्मत इत्यर्थः * रुच्यर्थानां प्रीयमाणः' इति चतुर्थी - तस्मात्सुमेरुतुल्यधनलाभेऽपि सृष्णाधनपिशाच्याः