पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
याच्जादैन्यदूषणम्

धनपतेः धनाढयस्य - पुरः अग्रे । प्रार्थनादुःखं याच्ञादैन्यं - भज - न्तीति तथोक्ताः सन्तः * भजोण्विः' । ये पुरुषाः । वर्तन्ते । तथा। ये च पुरुषाः । विषयाक्षेपे भोगसंग्रहे - पर्याप्ता तावन्मात्र एव पर्यवसिता न तु तत्त्वविचार इत्यर्थः - तादृशी या बुद्धिः तस्याः · पर्यस्त' इति पाठे - विषयाक्षेपेण भोगासक्त्या - पर्यस्ता विपरीता - यद्वा - विषयाक्षेपेण विषयकृतोपप्लवेन - पर्यस्ता विक्षिप्ता- या बृद्धिः - तस्याः हेतोः अल्पत्वं नीचत्वं । दधति । तेषां पुरुषाणां वासराणि दिवसान् - तदनुभूतदुर्दिनानीत्यर्थः - नि. 'वातुक्लीवे दिक्सवासरौ' इत्यमरः - अभिमतदेवतायां चित्तस्थिरीकरणं ध्यान- तस्य - च्छेदे अवसाने - ब्रह्मध्यानव्युत्थानसमय इत्यर्थः । शिखरि - कुहरे गिरिगह्वरे- यो ग्रांवा पाषाणस्स एव शय्या - तस्यां - निषण्ण: विश्रमार्थ शयितस्सन्नित्यर्थः । अन्तरन्तः करण एव - स्फुरितं समु- त्पन्नं - हसितं हासो - यस्मिन् कर्मणि तद्यथा तथा - तदानीं तेषा मपहास्यत्वात्तदनुभावत्वेनोत्पन्नहासगर्भितमित्यर्थः - स्मरेयं सदृशा दृष्टिचिन्ताद्याः स्मृतिबीजस्य बोधका' इति वचनात्कुतश्चिचिन्ताव - शाद्दष्टिवशाद्वा समुद्बुद्धसंस्कारस्तदीयदुर्दिनानि स्मृतिविषयाणि कुर्यामित्यर्थः -- वासराणां स्मरेयमिति वा पाठः - तथा अधी - गर्थदयेशां कर्मणी 'ति कर्मणि षष्ठी-अधीगर्थानां च शेषाधिकारात्- अशेषत्वविवक्षायां तु द्वितीयैव स्मर्यते - संभावनाया मुत्तमपुरुषैक - वचनं। यथाऽहं याच्यादुःखाभिसंतप्त विषयाक्षिप्तचित्तजनदुर्दशादर्श- नात्संजातनिर्वेदः केनचिद्भाग्योदयेन परमेश्वरानुगृहीतस्तद्ध्यानोत्थाने तदीयदुर्दिनस्मरणतत्परो भवेयम् -- तथा विवेकिभिः श्रेयार्थिभिः