पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
वैराग्यशतके

तादृक्परपिण्डाशनेन प्राणत्राणतत्परा जाता इत्यर्थः यदि स्थानानि न नश्येरन् तर्हि जना ईदक्कष्टयाच्ञातत्परा न भवेयुः - तेषां नष्टत्वा- देवेदृग्दुरवस्थापन्ना इति कृत्वा एवं वितर्क्यत इति वाक्यार्थः ; यद्वा- गत्यन्तराभावं प्रश्नद्वारा दूषयति-गङ्गेति --- किंशब्दोऽत्र प्रश्ने - नन्वेवं कुतः पृच्छयत इत्यत आह - यस्मात्कारणात् - हे मनुष्याः सावमान परपिण्डरताः - यूयं जाता इति शेषः - अतः प्रश्नस्यावकाश इति भावः - अन्यत्समानम् ; एतेन दुर्भगयाच्ञापिशाचिकामूर्धन्यशनिं पातयित्वा गिरिपरिसरेषु सुखेन वर्तितव्यमिति सूचितम् ।।

 वसन्ततिलकावृत्तम् ॥

किं कन्दाः कंदरेभ्यः प्रळयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तित भ्रूलतानि ॥ २५

 व्या---- इदानींपुनर्जीवनोपायान्तराभाववितर्कद्वारादूषयति- किमिति,-कन्दरेभ्यो गुहाभ्यस्सकाशात् कन्दाः कन्द - मूलादिपदार्थाः - क्षुन्निवारणक्षमा इति भावः। प्रळयं विनाशं - विराममिति यावत् । उपगताः प्राप्ताः किं- * 'जुगुप्साविरामे त्या - दिना पञ्चमी। एवमुत्तरत्रापि - किंशब्दो वितर्के । तथा गिरिभ्यस्सकाशा न्निर्झरावा प्रवाहाश्च वा - उपशमकरा इति भावः। 'प्रळयमुपगताः किमिति संबन्धः - 'प्रवाहो निझरो झर' इत्यमरः - नि - वास्याद्विकल्पोपमयोरेवार्थे च समुच्चय' इति चामरः । तथा तरुभ्यः वृक्षेभ्यस्सकाशात् । सरसानि माधुर्यरसयु-