पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
नीतिशतके

केनचिद्धेतुना क्रद्धस्सम् । हंसस्य निजयानमराळस्य । अम्भोजिनीवने पद्मिनीषने - यो विहारः क्रीडा - स एव विलासः लीला - तमेव न त्वन्यत् । नितरामतिशयेन। हन्तु नाशयतु । 'विलासमेक' मिति पाटे - एकं केवलं विलासमित्यन्वयः। अम्भोजाकरसंशोषणेन तत्र विहारभङ्गमात्रमेव कतुं शक्नोतीत्यर्थः। किं त्वसौ सौ विधाता। अस्य हंसस्य । दुग्धजलयोः क्षीरनीरयोर्भेदविधौ विभागकरणे विषये। प्रसिद्धां प्रख्याताम् । वैदग्ध्यकीर्ति वैदग्ध्येन " कृत्यवस्तुपु चातुर्य वैदग्ध्यं परिकीर्यंत' इत्युक्तलक्षणनैपुण्येन - प्रयुक्ता या कीर्तिस्ता मपहर्तुं न शक्नोति। हंसो हि क्षीरमिश्रिते नीरे नीरं विहाय क्षीरं गृहाणातीति प्रसिद्धिः। एवं कुपितो राजा स्वविषयवासादिभङ्गमात्र- मेव कर्तुं शक्नोति। न तु तेषामशेषविद्यापरिशीलनजनितचातुर्य- भङ्गमतो निष्कोपेन भवितव्यं विद्वत्सु राज्ञेति तात्पर्यम् ॥

 अत्राप्रकृतविधातृवृत्तान्तकथनात् प्रस्तुतराजविद्वज्जनवृत्तप्रतीते- रप्रस्तुतप्रशंसालंकारः - लक्षणं तूक्तम् ॥

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषगम् ॥ १६ ॥

 व्या.-अथ विदुषां तावद्विद्यैव भूषणरूपसंपत्तिरित्याह द्वाभ्यां - केयूराणीति.----केयूराण्यङ्गदानि - यद्यपि केयूरयोर्निज- भुजशिरोभूषणत्वेन द्वित्वमेव वक्तव्यं - तथाऽपि तद्विशेषविवक्षायाम्