पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ याच्ञादैन्यदूषणम् ॥

दीनादीनमुखैस्सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैनिरन्नविधुरा दृश्या न चेद्रोहिनी।
याच्ञाभङ्गभयेन गद्गदगळत्रुट्यद्विलीनाक्षरै
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनखी पुमान् ॥ २१

 व्या.--अथ याच्ञादैन्यदूषणमारभते-अत्रायमभिप्रायः विष- याणां याच्ञादैन्यप्रयोजकत्वाद्विषयपरित्यागविडम्बनानन्तर्येणैतत्प्र- योज्ययाच्ञाजनितदैन्यमपि दूषणीयमेवेति अतस्तत्प्रसङ्गानन्तरमेतद्दू- षयितुमारभते - दीनेत्यादिश्लोकदशकेन-दीनादीनमुखैरिति.दीनाद- रिद्राः । अत एव। दीनानि शोभाहीनानि मुखानि येषां तैः । कुतः। क्रोशद्धिः रुदद्भिः। तत्कुतः। क्षुधितैः संजातक्षुधैः - बुभुक्षितैरि- त्यर्थः - क्षुधाशब्दोऽप्याबन्तस्तस्मात् * सदस्य संजातं तारकादि- भ्य' इतजिती'तच्प्रत्ययः - तारकादिराकृतिगणः - क्षुदिति दका- रान्तपक्षे तु-क्षुधं प्राप्तै- क्षुधितैः क्षुधातुरैः ॐ कर्तरिक्तः वसति क्षुधो रिडि 'तीडागमः । शिशुकैरत्यन्तबालकै: * अल्पार्थे कन्प्रत्य- यः। सदा सर्वदैवाकृष्टमन्नपानादियाच्ञापूर्वकमाक्षिप्तं - जीर्णाम्बरं विशीर्णवस्त्रं - यस्यास्सा। तथा। निरन्ना अन्नपानरहिता - अत एव विधुरा विह्वला - निरन्ना च सा विधुरा चेति विशेषणसमासः .. अनाभावात्कष्टजीवनेत्यर्थः - नि.--' विधुरः प्रत्यवेतेस्यात्कष्टविश्लि. ष्टयोरपी'ति विश्वः । गेहिनी गृहिणी । दृश्या दृष्टिगोचरा । न चेन्न- स्याद्यदि। तर्हि । मनस्वी सुमेधाः - धैर्यशाली * प्रशंसायामिनिः । कः पुमान् । याच्ञाभङ्गाद्यद्भयं तेन । गद्दो हीनस्वरः - अनुकरण-