पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
वैराग्यशतके

‘क्तस्य च वर्तमान' इति षष्टी - प्रतिपदविधाना षष्ठी न समस्यत इति वक्तव्यमिति समासनिपेधः । संपदः धनधान्यादिद्रव्यसमृद्धयः संख्यातिगाः असंख्येयाः - अपरिमिता इत्यर्थः । दयिता प्रियतमा- कल्याणी आनुकूल्यादिगुणसंपन्नत्वाच्छोभना - तदुक्तम् -

अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसंपन्नाम् ।
पञ्चलकारां भायां पुरुषः पुण्योदयाल्लभते'॥

 वयश्च । नवं नूतनं - यौवनमित्यर्थः - नि. वयः पक्षिणि बाल्यादा- वि' त्यमरः। इत्येवमज्ञानेन मोहेन - मूढो विवेकशून्यो । जनः । विश्वं गृहापत्यवित्तदारादिप्रपञ्चम्। अनश्वरं शाश्वतं । मत्वा आलोच्य । संसार एव कारागृहं बन्दीगृहं - तत्र निविशते प्रवि- शति - तदासको भवतीत्यर्थः - न तु तस्यानर्थमूलत्वं जानातीति भावः * 'नेर्विश' इत्यात्मनेपदम् - अतिसंकटतया परमनिर्बन्ध हेतुत्वात्संसारस्य कारागृह्त्वरूपणं - नि. कारा स्याद्बन्धनालय' - इत्यमरः । धन्यस्तु ज्ञानी - तु शब्दः पूर्वस्माद्वैलक्षण्यं द्योतयति। तदेवाह - तदखिलं वेश्माद्यशेषप्रपञ्चं क्षणभङ्गरमशाश्वतं। संदृश्य सम्यगालोक्य संपूर्वादृशेः क्त्वाचो ल्यबादेशः। सन्न यस्यति - न तत्रासक्तो भवति - किं तु विरक्तो भवतीति भावः ; अतः ज्ञानेन सर्वानर्थमूलमज्ञानं निरस्य कृतकृत्येन भवितव्य मिति तात्पर्यम् ।।

 शार्दूलविक्रीडितम् ॥

इति वैराग्यशतके विश्वपरित्यागविडंबनं संपूर्णम् ।।