पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
विषयपरित्यागविडंबनम्

मिथो विशेषणविशेष्यभाव विवक्षायां * विशेषणं विशेष्येण बहुल मि' ति समासः - शैत्यगुणयुक्तं संतापहर चेत्यर्थ:- 'शीतली क्रियते तापो येन तन्मधुरं स्मृत मि 'ति लक्षणात् - यद्वा मधुरं शर्करापानकवन्माधुर्यसंयुक्तं - सलिलमुदकं - पिबति । तथा क्षुधार्तः बुभुक्षापीडितस्सन् । मांसादिना मांस घृतपयो दध्यादिव्यञ्जनद्रव्ये - णेत्यर्थः - कलितं रुचिरं स्वादूकृतमित्यर्थः ॐ कलिः कामधेनुः । शाल्यन्नं । कबळयति भुङ्क्ते। तथा कामानौ मदनदहने। प्रदीप्ते प्रज्वलते सति - मन्मथोद्रेके सतीत्यर्थः । सुदृढतरमतिगाढं। वधूं स्त्रिय मालिङ्गत्याश्लिष्यंति । अतः व्याधेः क्षुत्तृष्णादिरूपामयस्य। प्रतीकारं तदुपशान्तिकरान्नपानालिङ्गनरूपौषधसेवनरूपप्रीतक्रिया- "मित्यर्थः । सुखं भोग। इति । जनो विपर्यस्यति विपर्यस्तबुद्धिं प्राप्नो ति - न तु तत्वं जानातीत्यर्थः । अतस्मिंस्तद्हो विपर्यासः । अयं च अज्ञानदुर्विलास एवेति भावः॥  वृत्तं पूर्ववत् ॥

तुङ्गं वेश्म सुतस्स्मतामभिमतास्सङ्ख यातिगास्संपदः
कळ्याणी दयिता वयश्व नवमित्यज्ञानमूढो जनः।
मत्वा विश्वमनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्नन्यस्यति ॥ २०

 व्या.--एवं तावदज्ञो जनस्संसारविषयासक्त्या बद्धो भवति ज्ञानी तु सर्वसङ्गं परित्यज्य कृतकृत्यो भवतीति निगमयति । तुङ्गमिति.- वेश्म प्रासादादि। तुङ्गमुन्नतं । सुताः पुत्रास्सतां साधूनां - विदुषाम्। अभिमता इष्टास्संप्राप्त विद्याविनयादिगुणा इत्यर्थः * · मतिबुद्धी' त्यादिना वर्तमानार्थे क्तः - अत एव*