पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
विद्वत्पद्धतिः

तान् विदुषो मावमंस्थाः मावमानय - मन्यतेरवपूर्वाल्लु्ङि थासि 'न माङयोग' इत्यट्प्रतिषेधः। कुतस्तृणमिव लवु निस्सारा - लक्ष्मीस्त्वदीयसंपत्तिः - नि - " शोभा संपत्ति पद्मासु लक्ष्मीः श्रीरिख गीयत" इति विश्वः । तान् पण्डितान् नैव संरुणद्धि ईषदपि संरोद्धुं न शक्नोतीत्यर्थः । तत्र दृष्टान्तः। अभिनवमदरेखाभिः दान- वाराभिः - श्यामानि गण्डस्थलानि येषां तेषाम् वारणानां मत्ते- भानाम्। बिसतन्तुः मृणाळसूत्रम्। वारणं प्रतिबन्धकभूतम्। न भवति ; अतः पण्डितेषु बहुमानाचरणतत्परत्वेनैव वर्तितव्य मित्यर्थः ॥

 अत्र दृष्टान्तालंकारः--

यत्र वाक्यद्वये बिम्बप्रतिविम्बतयोच्यते ।
सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥

इति लक्षणात् : स चोक्तोपमयाऽङ्गेन संकीर्यते ॥

 मालिनीवृत्तं - " ननमयययुतेऽयं मालिनी भोगिलोकै "रिति लक्षणात् ॥

अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तु मसौ समर्थः ॥ १५ ॥

 व्या.--किं बहुना ब्रह्माऽपि तदीयवैदग्ध्यापहरणे न शक्त इति दृष्टान्तमुखेनाह - अम्भोजिनीति -विधाता ब्रह्मा। कुपितः